________________
१०
]
.
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ६-७.]
क्रियापरिच्छिन्न उच्चारणकालो मात्रा। अर्धमात्रिकयोरिति-मात्राया अर्धमर्धमात्रा, साऽस्त्यनयो: “व्रीह्यादिभ्यस्तौ" [७. २. ५.] इति इकः। वर्णसमुदायस्येति-औदन्ता इत्यनुवृत्त्या वर्णा इति लाभात् 'तितउ' इत्यत्र 'अउ' इत्येवंरूपवर्णसमुदायस्य दीर्घत्वनिषेधः। संध्यक्षराणां विति-अन्यैः कालापकाद्यैः संध्यक्षराणां दीर्घसंज्ञाऽपि न कृता, ततोऽत्र संज्ञाद्वयेऽपि संदेहः, यद्वा, अप्रा इत्यादौ क्रमेण ह्रस्व-दीर्घसंज्ञा दृष्टा, ए ऐ इत्या- 5 दावपि किं तथैवेत्याशङ्कायामिदमुक्त संध्यक्षराणां त्वित्यादि ।। ५ ।।
अनवर्णा नामी ॥ १. १. ६ ॥ .
अवर्णरहिता प्रौदन्ता वर्णा नामिसंज्ञा भवन्ति । इ ई उ ऊ ऋ ऋ लु ल, ए ऐ ओ औ । बहुवचनं प्लुतसंग्रहार्थम्, एवमुत्तरत्रापि । नामिप्रदेशाः"नामिनस्तयोः षः” [२. ३. ८.] इत्यादयः ।। ६ ।।
10 न्या० स०–अनवर्णेत्यादि-अविद्यमानोऽवर्णो येषु तेऽनवर्णाः । ननु संज्ञिसमानाधिकरणत्वेन संज्ञानिर्देशे सति “प्रौदन्ताः स्वराः" [१. १. ४.] इतिवन्नामिन इति बहुवचनेन निर्देशो युज्यते तत् किं नामीत्येकवचननिर्देश: ? सत्यम्, वचनभेदेन संज्ञां कुर्वन्नेवं बोधयति-'यत्र नामिनः कार्य क्रियते तत्र कार्याद् यदि कार्यों स्वरो न्यूनो भवति, तत्रैव नामिसंज्ञाप्रवृत्तिर्नान्यथा' तेन 'ग्लायति, म्लायति' इत्यादौ न गुणः, अत एव तत्राऽऽह-15 'ऐकारोपदेशबलान्नामित्वाभावाद् गुणाभावः' इति । अत्रोत्तरयोश्च बहुवचनं प्लुतसंग्रहार्थम् विशेषणविशेष्यभावस्तु वचनभेदेऽपि सामान्य-विशेषभावेन, यथा-पञ्चादौ चुट, वेदाः प्रमाणम्, इति ।। ६ ।।
ल.दन्ताः समानाः ॥ १. १.७ ॥
ल कारावसाना वर्णाः समानसंज्ञा भवन्ति । अ आ इ ई उ ऊ ऋ ऋ20 ल ल । समानप्रदेशाः-“समानानां तेन दीर्घः" [१. २. १.] इत्यादयः ॥ ७ ॥
न्या० स०-ल्दन्ता इत्यादि-उदात्ताऽनुदात्त-स्वरितसानुनासिक-निरनुनासिकभेदादष्टादशधा भिद्यन्तेऽवर्णादय इति । समानं तुल्यं मानं परिमारणं परिच्छेदो वा येषां ते समानाः, परस्परविलक्षणाकारं बिभ्राणा अपीति । तथा लकारस्य समानसंज्ञायाम्,25 कल्पनं क्लप "कत्संपदादिभ्यः क्विप" [५.३.११४.] कलायाः क्लप, तामकार्षीत णिचि अन्त्यस्वरादिलोपे समानलोपात् "उपान्त्यस्यासमानलोपि०" [४. २. ३५.] इति ह्रस्वत्वाभावे "असमानलोपे०" [४. १. ६३.] इति सन्वद्भावाभावे च 'अचकलाकद्' इति भवति, क्ल कार इति समानदीर्घत्वं च फलम् ।। ७ ।।