________________
बृहद्वृत्ति-लवुन्याससंवलिते
[पा० १. सू० ४.]
कालः, लिङ्ग पु-स्त्री-नपुसकरूपम्, "अविकारोऽद्रवम्" इत्यादि स्वाङ्गम्. एकाद्यभिधानप्रत्ययहेतुः संख्या, सर्वतो मानं परिमारणम्. अपत्यं प्रसिद्धम्, नानाभिधायिनां शब्दानां क्रिया-गुण-द्रव्ययुगपत्प्रयोक्तुाप्तुमिच्छा वीप्सा, अदर्शनं लुक, अष्टादशभेदोऽकारादिसमुदायोऽवर्णः प्रादिशब्दादिवर्णादिपरिग्रह इति वैयाकरणाः । कर्म (क्रिया) उत्क्षेपणादि, द्रव्याश्रयो गुरणः, गुणाश्रयो द्रव्यम्, अनुवृत्तप्रत्ययहेतुः सामान्य जातिः। 5 परापरादिप्रत्ययहेतुः कालः। अनुमानं लिङ्गम् । स्वाङ्गयारम्भकमवयवरूपं स्वाङ्गम् । अणु-महदादिप्रत्ययहेतुः परिमारणमिति तार्किकाः।
परान्नित्यम् इति-तथाहि-वनानीत्यादौ "शसोऽता." [१. ४. ४६.] इति दीर्घ बाधित्वा परत्वात् “नपुसकस्य शिः" [१. ४. ५५.] इत्येव भवति । तस्माच्च नित्यं बलीयः, यथा-'स्योन' इत्यत्र परमपि गुणं बाधित्वा नित्यत्वादट । तथा *नित्यादन्त-10 रङ्गम्* यथा-ज्ञाया ओदनो ज्ञौदनस्तमिच्छति क्यन्, ततः सनि, अकृतव्यूहत्वाद् 'ज्ञा ओदन य स' इति स्थिते द्वित्वं प्राप्नोति औत्वं च, ततो नित्यत्वाद् द्वित्वे प्राप्ते तद् बाधित्वाऽन्तरङ्गत्वादौत्वं भवति-जुज्ञौदनीयिषतीति । तथा *प्रन्तरङ्गादनवकाशम् यथा-गर्गस्यापत्यानि यत्र , तेषां छात्राः "दोरीयः" [ ६. ३. ३२. ] ततोन्तरङ्गत्वाद “यत्रत्रः०" [६. १. १२६.] इति यत्रो लुप् “न प्राजितीये." [६. १. १३५.] इति 15 तनिषेधश्च प्राप्नुतः, परमनवकाशत्वाद् “न प्राजितीये." [६. १. १३५.] इत्येव प्रवर्तते, ततो गार्गीया इति सिद्धम् । तथा आदिशब्दात् पराबन्तरंगम् अपि, यथा-सिवे: "प्या-धा-पन्यनि०" [उणा० २५८.] इति नेऽपवादत्वाद् वलोपं बाधित्वा गुणात् पूर्व नित्यत्वादूटि च कृते परत्वाद् गुणे प्राप्तेऽन्तरङ्गत्वात् तं बाधित्वा यत्वं भवति 'स्योन' इति । एतासां क्रियादीनां संज्ञानां न्यायानां च शास्त्रप्रवृत्तये लोकात् सिद्धिर्वेदितव्या, न20 च लोकमन्तरेण तज्ज्ञानोपायोऽस्ति, न च तज्ज्ञानं विना "क्रियार्थो धातुः" [३. ३. ३. ] "गुणादस्त्रियां नवा" [२. २. ७७.] "जातिकालसुखादेर्नवा" [३. १. १५२.] "स्वाङ्गादेरकृतमित०" [२. ४. ४६.] इति, "संख्यानां ष्र्णाम्" [ १. ४. ३३. ] "परिमाणात् तद्धित." [२. ४. २३.) इति, "ङसोऽपत्ये" [ ६. १. २८. ] “वीप्सायाम्" [७. ४. ८०.] "लुगस्यादेत्यपदे" [ २. १. ११३. ] "अवर्णस्येवर्णादिना०" [१. २. ६.] इति, "इवर्णा-25 देरस्वे स्वरे." [ १. २. २१. ] इत्यादिशास्त्रप्रवृत्तिः। नीयते प्राप्यते संदेहदोलामधिरूढोऽर्थो निर्णयपदमेभिरिति "न्यायावाय." [५. ३. १३४.] इति घत्रि न्याया युक्तयः ॥ ३॥
औदन्ताः स्वराः ॥ १.१.४ ॥ औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति, तकार उच्चारणार्थः । अ आ30
१. ह्रस्व-दीर्घ-प्लुतादिभेदयुक्तः । २. सामान्यं परिमाणमिति इ।