________________
३६६ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० ४. सू० १६.]
न्या० स०--गौरादिभ्यो। गौरेति-गूयते उपादेयता "खुर-क्षर०" [उणा० । ३६६.] इति निपातः, यद्वा “गुरैत् गुरति मनोऽस्मिन् घनि गोर एव गौर इति क्षीरस्वामी। शाम्यति एकत्वमिति “शमेव च वा" [ उणा० ४७०. ] इत्यनेनाऽलप्रत्ययः, मकारस्य वः । कलयति "कुलेश्च माषक्” [ उणा० ५६३. कल्माष ] सरति वर्णभावम् "सृ-व-न भ्यो रिणत्" [ उणा० ६६. ] अङ्गः [सारङ्ग]। “पिशत् अवयवे' पिशतीति 5 "विडि-विलि-कृरि-मृदि-पिशिभ्यः कित्" [उणा० १०१. ] अङ्ग पिशङ्ग। हरतीति"ह-वृहि-दक्षिभ्य इणः" [ उणा० १६४. ] [हरिण] पण्डते मनोऽत्रेति “जठर०" [ उणा० ४०३. ] इति साधुः [पाण्डुर]। सुष्ठु नन्दयत्यच् “पृषोदर०" [३. २. १५५.] इति सुन्दर, अथवा सुन्दिः सौत्रः सौन्दर्ये वर्तते । विपूर्वात् कले: “अः" [ उणा० २. ] इत्यप्रत्यये, यत्र विकला सामग्री तत्र विगता कला लेशो यस्याः, अन्यत्र विकल्पे च ।10 विष्कल इति-गणपाठसामर्थ्यात् षकारः, यद्वा “वर्चस्कादि०" [ ३. २. ४८.] इति षकारः। [पुष्कल] पुष्कलार्थ पृषेः कलक। निष्कलेत्यत्र निसपूर्वात कलेरप्रत्यये "निर्दुर्." [२. ३. ५६.] इति षत्वम् । चेटतीति लिहाद्यचि-चेटः। “विट शब्दे" इत्यतो "नाम्युपान्त्यः" [ ५. १. ५४. ] इति के-विटः। टेकते "अः" [उणा० २.] इत्यकारे बाहुलकत्वात् कस्य टत्वे टेटः। अट पट इट एटतीति "नाम्युपान्त्य०"15 [ ५. १. ५४. ] इति के इट:, कटशब्देन षष्ठीसमासः। “नट नृत्तौ” नटतीत्यच्, एते त्रयोऽपि नर्तकाः । कवेः शिवेरपत्यं “कुर्वादि०" [६. १. १००.] “दुनादि०" [६. १. ११८. ] इति ज्ये-काव्य शैव्य, ततो ङ्यां "व्यञ्जनात्तद्धितस्य" [ २. ४. ८८.] इति यलोपे-कावी शैवी। मुकय इति-वेसरः । द्रुणेति-कच्छपी। अोकणेति-"उचच् समवाये" चिक्कणादिनिपातनादणे कत्वे च-पोकरण, ङ्यामोकणी, श्रीकरणादिव्या-20 पारानन्तरं गुप्त्यादौ पर्यन्तबन्धनस्य किलाख्या। भौरिकीत्यत्र-भवते: “भू-सू-कुशि०" [उणा० ६६३.] इति किति रिप्रत्यये स्वाथिके के च-भूरिक, ऋफिडादित्वाल्लत्वेभूलिक, तयोरपत्यम् “अत इञ्" [६. १. ३१.] । भौलिङ्गीति-"भलि परिभाषणादौ" "भलेरिदुतौ चातः" [ उणा० १०३. ] इङ्गकि अकारस्योकारे-भुलिङ्ग, अथवा भुवि लिङ्ग कीतिरस्येति वा पृषोदरादित्वात् भुवो ह्रस्वत्वे-भुलिङ्ग, तस्यापत्यं भौलिङ्गि25 "सात्वांश०" [ ६. १. ११७. ] इति इञ् ।
आलच्चीत्यत्र "अली भूषण." शतृ, कलण शतृ अलन्तं कलन्तं चिनोति "क्वचित्" [ ६. २. १४५. ] अलच्चस्यापत्यं कलच्चस्यापत्यम् “अत इञ्" [६. १. ३१.]। सौधर्मति-सुधर्मस्यापत्यम् ऋष्यण तदा डीः सिद्ध एव, अथवा शोभनो धर्मो यस्याः “द्विपदाद्धर्मादन्" [७. ३. १४१.] इत्यन्, “ताभ्यां वाप् डित्" [ २. ४. १५. ]30 डापि-सुधर्मा, सुधर्माया अपत्यं “ड्याप्त्यूङः" [ ६. १.७०.] इति एयणबाधक: "प्रदोर्नदी०" [ ६. १. ६७. ] इत्यण्, यद्वा सुधर्मणोऽपत्यं “ङसोऽपत्ये" [ ६. १. २८. ] अण् । आयस्थूणेति-अयस्थूणस्यापत्यं शिवादेरण्, यद्वा "ऋषि-वृष्ण्यन्धक०" [.६. १. ६१. ] कुरुद्वारोऽण, प्रायस्थूण ऋषिः । अरदस्यापत्यम् “ऋषि-वृष्ण्यन्धक०" [६.१.६१.]