________________
1
[ पा० ३. सू० १०५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५५
“ऋ-सृ-तृ-व्या-लिह्यवि० " [ उरणा० १७१. ] इत्यडे | पुरोडाश इति -पुरो दाश्यते घत्रि “पृषोदरादय:" [ ३. २. १५५ ] । वडे: सौत्रात् " कुलिकनि ० " [ उणा० ५३५. ] इति किशे - वडिशम् । पुलिनमिति - "पुल महत्त्वे" "वृजि-महि० " [ उणा० २८३. ] किदिने - पुलिनम् । निर्देशस्य समानत्वात् क्वचिल्लकारस्य डकारोऽपि - पुडिनम् । पीडेति" भीषि - भूषि०" [ ५. २. १०६ ] इत्यादिना बहुवचनादङ । पाण्डुरिति - " पनेर्दीर्घश्व" 5 [ उणा० ७६६. ] इति हुप्रत्ययः । कण्डूरिति - "कषेण्डद्वौ च षः" [ उणा० ८३१. ] इति । डामर इति - "दमेरिद्वा दव ड : " [ उणा० ४०२. ] । डीन इति - डीङ च् " सूयत्याद्योदितः " [ ४. २.७० ] इति नकारे "डीयश्व्यैदित:" [ ४. ४. ६१. ] इति 'इनिषेधे-डीनः । डुण्डुभ इति- डुण्डुशब्देन भातीति डुण्डुभ: । डिण्डिम - शब्दम " क्वचित्" [ ५. १. १७१ ] इति डे - डिण्डिमः, अथवा "डिभेः कित्" [ उणा० ३५६. ]10
।। २. ३. १०४. ॥
जपादीनां पो वः ।। २. ३. १०५ ॥
जपादिशब्दसंबन्धिनः पकारस्य वकारदेशो वा भवति । जवा, जपा; पारावतः, पारापतः त्रिविष्टपम्, त्रिपिष्टपम्; पारावारः, पारापारः; कवाटः, कपाटः ; विष्टवम्, विष्टपम्; कवलः, कपलः; अवाची, अपाची । जपादयः 15 प्रयोगतोऽनुसर्तव्याः ।। १०५ ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृहद्वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः ।। २ । ३ ।।
मूलराजासिधारायां, निमग्ना ये महीभुजः ।
उन्मज्जन्तो विलोक्यन्ते, स्वर्गगङ्गाजलेषु ते ।। २ । ३ । ३ ।। 20
न्या० स० - जपादीनां पो वः । जपति जपतः (?) सो "व्यध-जप-मद्भ्यः " [ ५. ३. ४७ ] इत्यल् । पारापत इति - पराद् विप्रकृष्टादापततीति क्विपि परापत्, तस्यापत्यम् । त्रिविष्टपमिति - विष्लृ की "विष्टपोलप०" [ उणा० ३०७ ] इति तृतीयं विष्टपं प्राच्या स्त्रिपिष्टपमिति पठन्ति । पारापार इति - पारयतीति पारः, न पारोऽपारः, अपारः पारोऽस्य पारापारः, राजदन्तादित्वात् पारस्य प्राग् निपातः । कपाट इति - 25 "कपुङ चलने” “कपाटविराट० " [ उरणा० १४८. ] इति निपातः । विष्टपमिति विष्टं पातीति " क्वचित्" [ ५. १. १७१ ] इति डे । कवल इति-के-तालुनि पलति
।। २. ३. १०५ ।।
इति द्वितीयस्याध्यायस्य तृतीयः पादः ॥ २ ॥३॥