________________
[पा० ३. सू० १०१-१०४.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३५३
ग्रो यहि ॥ २. ३. १०१ ॥
यङि प्रत्यये परे गिरते रेफस्य लकारादेशो भवति । गहितं निगिरतिनिजेगिल्यते । गृणातेस्तु यङेव नास्ति । केचित् तु तस्यापीच्छन्ति, लत्वं तु नेच्छन्ति । यङीति किम् ? निगीर्यते ।। १०१ ।।
न्या० स०--ग्रो यङि। निजेगिल्यत इति-अत्र “भ्वादे:०" [ २. १. ६३. ] 5 इत्यस्य परे लत्वेऽसत्त्वम् । यडेव नास्तीति-"न गृणा-शुभ-रुचः" [३. ४. १३. ] इति निषेधात् । तस्यापोच्छन्तीति-तन्मते निजेगीर्यते इति भवति ।। २. ३. १०१ ।।
नवा स्वरे ॥ २. ३. १०२॥
गिरते रेफस्य स्वरादौ प्रत्यये विहितस्य लकारो वा भवति । गिलति, गिरति; निगलनम्, निगरणम् ; निगालकः, निगारकः । स्वर इति किम् ? 10 निगीर्णः, निगीर्णवान् । विहितविशेषणं किम् ? इह च यथा स्यात्-निगाल्यते, निगार्यते; इह च मा भूत्-गिरौ, गिरः ।। १०२ ।।
न्या० स०--नवा स्वरे। निगाल्यत इति-अत्र निपूर्वात् ग तो णौ वृद्धौ लकारो णिलोपश्चेत्युभयप्राप्तौ नित्यत्वात् पूर्वं णिलोपः, न च प्रत्ययलोपे प्रत्ययलक्षणम् इति न्यायेन लत्वस्यापि प्राप्तौ तस्यापि नित्यत्वं वर्णाश्रये प्रत्ययलक्षणस्य प्रतिषेधात्15 ।। २. ३. १०२ ।।
परे_-क-योगे ॥ २. ३. १०३ ॥
परिसंबन्धिनो रेफस्य ‘घ अङ्क योग' इत्येतेषु शब्देषु परेषु लो वा भवति । पलिघः, परिघः; पल्यङ्कः, पर्यङ्कः; पलियोगः, परियोगः ।। १०३ ।।
न्या० स०--परेर्घाङ्कयोगे। पल्यङ्क इति-अङ्कयत्यच्, अङ्क परिगतोऽङ्कन वा20 परिगतः, एवं-परियोगः ।। २. ३. १०३ ।।
ऋफिडादीनां डश्च लः ॥ २. ३. १०४ ॥
ऋफिड इत्यादीनामृ-रो लु-लौ डकारस्य च लो भवति वा । लृफिडः, लुफिलः; ऋफिलः, ऋफिडः; लतकः, ऋतकः; कपलिका, कपरिका; तिल्पिलीकम्, तिपिरीकम् ; कपिलकम्, कपिरकम् ; लोमानि, रोमारिण; 25