________________
[ पा० १. सू० २. ] श्री सिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ५
रूपाणि । तत्र " प्रौदन्ताः स्वराः " [ १.१.४. ] इति १ " प्रत्ययः प्रकृत्यादेः " [ ७. ४. ११५; ] इति २; " त्रुटि" [ १.४.६८ ] इति ३; "नाम्यन्तस्थाकवर्गात् ०" [ २. ३. १५. ] इति ४; " न स्तं मत्वर्थे” [१.१.२३. ] इति ५; " नाम सिदय्व्यञ्जने " [ ११२१ ] इति ६; "सौ नवेतौ” [ १.२.३८. ] इति ७; "शसोऽता ०" [ १.४. ४ε.] इति ८; "इदितो वा " [ ८. ४. १ ] इति ; " तयोः समूहवच्च बहुषु" [ ७.३. ३. ] 5 इति १० इत्यादीनि सूत्रारिण प्रत्येकं ज्ञातव्यानि । एतेषां मध्ये इदमधिकारसूत्रमाशास्त्रपरिसमाप्तेः । स्यादित्यव्ययमिति विभक्त्यन्ताभत्वेन स्वरादित्वाद् वाऽनेकान्तं द्योतयति वाचकत्वे नेत्प्रनेकान्तद्योतकम् । श्रनेकान्तवाद इति श्रमति गच्छति धर्मिणमिति "दम्यमि० ' [ उरणा० २०० ] इति तेऽन्तो धर्मः, न एकोऽनेकः, अनेकोऽन्तोऽस्यासावनेकान्तः तस्य वदनं याथातथ्येन प्रतिपादनम्, तच्चाभ्युपगतस्यैव भवतीति ।
"1
10
नित्यानित्यादीति - श्रादिशब्दात् सदसदात्मकत्व - सामान्यविशेषात्मकत्वाऽभिलाप्यानभिलाप्यत्वग्रहः । " नेध्रुवे" [ ६. ३. १७ ] इति त्यचि नित्यम्, उभयाद्यन्तापरिच्छिन्न सत्ताकं वस्तु तद्विपरीतमनित्यम् । आदीयते गृह्यतेऽर्थोऽस्मादिति " उपसर्गाद् द: कि : " [ ५. ३.८७ ] इति कौ आदिः । धरन्ति धर्मिणो धर्मरूपतामिति धर्मा वस्तुपर्यायाः, ते च सहभुवः सामान्यादय:, क्रमभुवश्च नवपुराणादयः पर्यायाः, धर्ममन्तरेण धर्मिणः स्वरूप- 15 नाशात् । शाम्यति विरुद्ध धर्मैर्युगपत्परिणतिमुपयाति " शमेर्व च वा” [ उणा० ४७०. ] इत्यले शबलम् । एत्यभेदं गच्छति "श्रीशलि० " [ उरणा० २१. ] इति के एकम् । वसन्ति सामान्यविशेषरूपा धर्मा अस्मिन्निति "वसेणिद्वा" [ उणा० ७७४ ] इति तुनि वस्तु । नित्यानित्यादिभिरनेकधर्मैः शबलं यदेकं वस्तु तस्याऽभ्युपगमः प्रमाणाविरुद्धोऽङ्गीकारः, तत एव शब्दानां सिद्धिभवति नान्यथेत्यत श्राह - एकस्यैवेति । तथाहि यस्यैव वर्णस्य ह्रस्वत्वं 20 विधीयते तस्यैव दीर्घत्वादि, तस्य च सर्वात्मना नित्यत्वे पूर्वधर्म नवृत्तिपूर्वकस्य ह्रस्वादिविधेरसंभव:; एवमनित्यत्वेऽपि जन्मानन्तरमेव विनाशात् कस्य ह्रस्वादिविधिरिति वर्णरूपसामान्याऽऽत्मना नित्यो ह्रस्वादिधर्मात्मना त्वनित्य इति तथा द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामर्थ्यं कारकम्, तच्च कर्त्राद्यनेकप्रकारमेकस्याप्युपलभ्यते; यथा-पीयमानं मधु मदत, वृक्षमारुह्य ततः फलान्यवचिनोति विषयेभ्यो बिभ्यदनात्मज्ञस्तेभ्य एवात्मानं 25 प्रयच्छंस्तरेव बन्धमाप्नोतीत्यादि ; तच्च कथमेकस्य सर्वथा नित्यत्वे एकरूपां वृत्तिमवलम्बमानस्याऽवस्थान्तराभिव्यक्तरूपोपलम्भाभावात् घटते ? इति साध्य-साधनरूपकारकव्यवहारविलापः । अनित्यत्वेऽपि न घटते, तथाहि -स्वातन्त्र्यं कर्तृत्वम्, तच्च
इदं कमियं क्रिया कररणमेतदेष क्रमो, व्ययोऽयमनुषङ्गजं फलमिदं दशेयं मम । अयं सुहृदयं द्विषन् प्रकृत देशकालाविमाविति प्रतित्रितर्कयन् प्रयतते बुधो नेतरः ॥ ७ ॥30
इत्येवमात्मकपरिदृष्टसामर्थ्यं कारकप्रयोक्त त्वलक्षणम्, तदपि नानित्यस्य क्षणमात्रावस्थायित्वेनोपजननानन्तरमेव विनष्टस्य युज्यते, किं पुनः कारकसंनिपात: ? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण सामानाधिकरण्यम्, विशेषणविशेष्यभावोऽपि नोपपद्यते ; तथाहि - भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकत्रार्थे वृत्तिः