________________
३४४ ]
बृहद्वृत्तिलघुन्याससंवलिते .
[पा० ३. सू० ८३-८५.] '
व-मि वा ॥ २. ३. ८३ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य हन्तेर्नकारस्य वकारे मकारे च परे पो भवति । प्रहण्वः, प्रहन्वः; प्रहण्मः, प्रहन्मः; प्रहण्मि, प्रहन्मि; प्राहण्वहे, प्राहन्वहे, प्राहण्महे, प्राहन्महे; अन्तर्हण्वः अन्तर्हन्वः; अन्तर्हःमः; अन्तर्हन्मः ।। ८३ ॥
5 न्या० स०--वमि वा। पूर्वेण नित्यं प्राप्ते विकल्पार्थम् । 'प्राहण्वहे' इत्यत्र "प्राङो यम-हनः०" [ ३. ३. ८६. ] इत्यात्मनेपदम् ॥ २. ३. ८३ ॥
निस-निक्ष-निन्दः कृति वा ॥ २. ३. ८४ ॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्य निसादीनां धातूनां नकारस्य कृत्प्रत्यये परे णो वा भवति । प्ररिंणसनम्, प्रनिसनम् ; प्रशिक्षणम्,10 प्रनिक्षणम् ; प्रणिन्दनम्, प्रनिन्दनम् । कृतीति किम् ? परिणस्ते, परिणिस्ते; प्ररिणक्षति, परिणिक्षति; प्रणिन्दति, परिणिन्दति; णोपदेशत्वान्नित्यं भवति ॥ ८४ ।।
न्या० स०-निस-निक्ष। नित्यं भवतीति-"अदुरुपसर्ग०" [२. ३. ७७. ] इत्यनेनेति शेषः। गोपदेशत्वात् “अदुरुपसर्ग०" [२. ३. ७७.] इत्यनेन, गति-15 कारकङस्युक्तानां०* इति न्यायादविभिक्त्यन्तैः कृदन्तैः सह प्रादीनां समासे सति निमित्त-निमित्तिनोरेकपदस्थत्वात् "रघुवर्णा०" [ २. ३. ६३. ] इत्यनेन वा नित्यं णत्वे प्राप्ते विकल्पार्थमिदम् ।। २.३.८४॥
स्व
रात् ॥ २. ३. ८५॥
अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्य कृद्विषयस्य नकारस्य20 स्वरादुत्तरस्य णो भवति । प्रहाणः, प्रहाणवान् ; प्रहीणः, प्रहीणवान् ; परिहीणः, परिहीणवान्; प्रगूणः, प्रगूणवान् ; प्रयाणम्, परियाणम् ; प्रवपणम्, परिवपणम् ; प्रयायमाणम्, परियायमाणम्; प्रयायिणौ, परियायिणौ ; अप्रयाणिः, अपरियारिणः; प्रयाणीयम्, परियाणीयम्; प्रवहणीयम्, परिवहणीयम्; यथासंभवं 'क्त क्तवतु अन आन इन् अनि अनीय' इत्येते25