________________
३४२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ८०-८१.]
ग्रहणाशङ्कापि कुतः ? उच्यते-"मिग्मीगोऽखलचलि" [४. २. ८.] इत्यनेनात्वविधानात् । नानुबन्धार्थ इति-यया रीत्या धातुपाठे माङित्यपाठि तया रीत्या यदि सूत्रेऽपि क्रियेत तदाऽनुबन्धनार्थः स्यात्, अत्र तु विशेषणं-ङकारेण उपलक्षितो मा-इति । ननु “सप्तम्या निर्दिष्टे पूर्वस्य" [७. ४. १०५.] तच्चानन्तरस्य न व्यवहितस्येति न्यायात् प्रण्यास्यतीत्यादौ आङा व्यवधाने न प्राप्नोतीत्याह-प्राङा व्यवधानेऽपीति- 5 अयमर्थः-"पदेऽन्तरे." [२. ३. ६३.] इति णत्वनिषेधकसूत्रे आङो वर्जनात् आङा व्यवधानेऽपि भवति ।। २. ३.७६ ।।
अक खाद्यषान्ते पाठे वा ॥ २. ३. ८० ॥
पाठे-धातूपदेशे ककार-खकारादिः षकारान्तश्च यो धातुस्ताभ्यामन्यस्मिन् धातौ परेऽदुरुपसर्गा-ऽन्तःशब्दस्थाद् रषवर्णात् परस्य नेर्नकारस्य10 णो वा भवति । प्रणिपचति, प्रनिपचति; परिणिपचति, परिनिपचति; परिणभिनत्ति, प्रनिभिनत्ति; परिणिभिनत्ति, परिनिभिनत्ति; प्रणिपापच्यते, प्रनिपापच्यते; प्रणिपापचीति, प्रनिपापचीति; प्रणिपिपक्षति, प्रनिपिपक्षति ; प्रण्यपीपचत्, प्रन्यपीपचत्; प्रणिष्टभ्नाति, प्रनिष्टभ्नाति ; स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् । पूर्वसूत्रारम्भसामर्थ्यात् पूर्वसूत्र-15 विभक्तोऽस्य विषयः, तेन 'प्रणिमयते, प्ररिणदयते' इत्यादौ पूर्वेण नित्यमेव णत्वम् । अक-खादोति किम् ? प्रनिकरोति, प्रनिकिरति, प्रनिखनति; प्रनिखादति । अषान्त इति किम् ? प्रनिद्वष्टि, प्रनिपिनष्टि । पाठ इति किम् ? इह च प्रतिषेधो यथा स्यात्-प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति । इह च मा भूत्-प्रणिवेष्टा, प्रनिवेष्टा; प्रणिदेष्टा, प्रनिदेष्टा; यङ्लुपि नेच्छन्त्येके-20 प्रनिपापचीति, प्रनिसासत्ति इत्यादि ।। ८० ।।
___ न्या० स०--अकखा० । अत्राकखादिषान्त इति सिद्धे नञ्द्वयं सुखार्थम्, नद्वये हि सति कखादेः षान्तस्य च वर्जनं प्रतीयते, एकस्मिस्तु कखादेः किंविशिष्टस्य षान्तस्येति प्रतीतिः स्यात् ; असंभवान्न भविष्यतीति न च वाच्यम्, "कषशिष" इत्यादावेवंविवस्यापि दर्शनात् । सौत्रेषु पाठादिति-ननु स्तम्भेर्धातुष्वपाठात् कथं पाठविषयत्वम् ? उच्यते-25 सौत्राणां सूत्रमेव धातूपदेशः । प्रनिवेष्टेति-"विशंत् प्रवेशने' इत्यस्य रूपम् ।। २. ३. ८० ।।
दिद्वत्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २. ३. ८१ ॥. अदुरुपसर्गा-ऽन्तःशब्दस्थाद् रघुवर्णात् परस्यानितेर्नकारस्य द्वित्वे