________________
[पा० ३. सू० ७७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३३६
10
सति उत्तरपदान्तस्य तथा नागमस्य स्यादेश्च नकारस्य णो भवति, न चेत् स नकारः पक्वशब्दसंबन्धी भवति । स्वर्गकामिणौ, मोक्षकामिणौ ; स्वर्गगामिणौ, वृषगामिणौ; स्वर्गगामिणी, वृषगामिणी; स्वर्गकामाणि, मोक्षकामाणि कुलानि; उरःकेण, उर) (केण; गुरुमुखेण, ऋषिमुखेण ; क्षीरमेघाणाम्, पुष्पमेघाणाम् । एकस्वर-ब्रह्महणौ, वृत्रहणौ; क्षीरपाणि, यूषपारिण; 5 क्षीरपेण, यूषपेण; उरःपेण, उर पेण; क्षीरपाणाम्, यूषपाणाम् । पुरोगान् परममृगानित्यत्र तु अनन्त्यस्येत्यधिकाराद् न भवति । अपक्वस्येत्येवक्षीरपक्वानि, यूषपक्वानि, क्षीरपक्वेन, यूषपक्वेन, क्षीरपक्वानाम्, यूषपक्वानाम्, अलचटतवर्गशसान्तर इत्येव-माषत्यागिनः, द्रव्यत्यागेन, माषजानि, माषजेन । नित्यार्थं वचनम् ॥ ७६ ।।
न्या० स०--कवर्गक०। न चेदिति-सत्यपि त्रितयानुवर्तने प्रतिषेधस्य प्राप्तिपूर्वकत्वात् कवर्गवत्त्वात् पक्वशब्दस्यैव प्रतिषेध इति । स्वर्गकामिणाविति-सुखेन पुण्यकर्मभिरर्व्यत इति घत्रि न्यङ क्वादित्वाद् गे तं कामयेते इत्येवंशीलौ। मोक्षकामिणाविति-मुच्यन्ते प्राणिनः कर्ममलकलङ्क नात्रेति "मावावद्यमि०" [ उणा० ५६४. ] इति से। माषजानि माषेषु जातानि “सप्तम्या ड:" [ ५. १. १६६. ] न तु मासाज्जातानि15 जातित्वात् । नित्यार्थमिति-अयमर्थ:- गतिकारक०* इति न्यायेन निमित्त-निमित्तिनोरेकपदस्थत्वात् "रघुवर्णात्०" [ २. ३. ६३. ] इति नित्यं प्राप्तं "वोत्तर०" [२. ३. ७५.] इति विकल्पितं पुनरनेन नित्यं विधीयत इत्यर्थः ।। २. ३. ७६ ।।
अदुरुपसगान्तरो ण-हिनु-मीना-मे ॥ २. ३. ७७ ॥
दुर्व|पसर्गस्थादन्तःशब्दस्थाच्च रघुवर्णात् परस्य णकार-हिनु-मीना-20 आनिसंबन्धिनो नकारस्य गो भवति, ऐति णोपदेशा धातवो गृह्यन्ते, उपसर्गाण्णत्वविधानात् । प्रणमति, परिणमति; प्रणयति, परिणयति; प्रणामकः, परिणामकः; प्रणायकः, परिणायकः; अन्तर्-अन्तर्णयति, अन्त
र्णायकः; हिनु-प्रहिणोति, प्रहिण तः; मीना-प्रमीणाति, प्रमीणीतः; हिनुमीनाग्रहणे विकृतस्यापि भवति, एकदेशे विकृतस्यानन्यत्वात्; आनि-प्रयाणि,25 प्रवयाणि प्रापयाणि । पानीत्यर्थवत एव ग्रहणादनर्थकस्य न भवति-प्रवृद्धा वपा येषां तानि प्रवपानि मांसानि। अदुरिति किम् ? दुर्नयः, दुर्नीतम् । उपसर्गान्तरिति किम् ? प्रातर्नयति, पुनर्नयति । * येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्ग