________________
३२२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ४३-४४.]
न्या० स०--अवाच्चा०। समुदायानुवृत्तावपि व्यभिचारादङ इत्यस्यैव ग्रह इत्याह- । अड़े इति । दुर्गमिति-दुःखेन गम्यते अस्मिन् इति “सुगदुर्गमाघारे" [ २. १. १३२. ] इति सिद्धिः, कर्मव्युत्पत्तौ तु खल् स्यात्, दुर्गं नगरादि बहुलं वृत्तेति क्लिबत्वम्, दुःखेन गम्यतेऽत्र तत्र वाच्यलिङ्गः। पारायणकारैस्तु भौवादिकस्यास्य अवष्टम्भते दण्डमिति न तु नैयासिकाः । अनित्यार्थमिति-यद्येवं तर्हि वोपादित्येवंविधमतः सूत्रात् पृथगेव कथं 5 न कृतम्, सत्यम्-विचित्रा सूत्रकृतिः। अवस्तब्धो वृषलः शीतेनेति-सङ कुचित इत्यर्थः ।। २. ३. ४२ ॥
व्यवात् स्वनोशने ॥ २. ३. ४३ ॥
वेरवाच्चोपसर्गात् परस्य स्वनो धातोः सकारस्याशने-भोजनेऽर्थे द्वित्वेऽपि अट्यपि षो भवति । पूर्वसूत्रे चानुकृष्टत्वादिहाङ इति नानुवर्तते ।10 विष्वणति, अवष्वणति, भुङ्क्त इत्यर्थः; सशब्दं भुङ्क्ते इत्यर्थ इत्यन्ये, भुजानः कञ्चिच्छब्दं करोतीत्यर्थ इत्यपरे। विषष्वाण, अवषष्वाण, विषंष्वण्यते, अवषष्वण्यते, विषिष्वणिषति, अवषिष्वणिषति, व्यष्वणत्, अवाष्वणत्, व्यषिष्वणत्, अवाषिष्वणत् । व्यवादिति किम् ? अतिस्वनति, अत्यसिस्वनत् । अशन इति किम् ? विस्वनति, अवस्वनति मृदङ्गः; विविध15 शब्दं करोतीत्यर्थः ।। ४३ ।।
सदोपतेः परोक्षायां त्वादेः ॥ २. ३. ४४ ॥
प्रतिवजितोपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य सदो धातोः सकारस्य द्वित्वेऽप्यट्यपि षो भवति, परोक्षायां तु द्वित्वे सति प्रादेः पूर्वस्यैव भवति । निषीदति, विषीदति, निषापद्यते, विषाषद्यते, निषिषत्सति, न्यषीदत्, व्यषीदत्,20 परोक्षायां त्वादेरेव-निषसाद, विषसाद । अप्रतेरिति किम् ? प्रतिसीदति, प्रत्यसीषदत्, प्रतिसिषत्सति; अत्र प्रतेः परस्याद्यसकारस्य षत्वं न भवति । प्रकृतिसकारस्य तु नामिनः परस्य "नाम्यन्तस्था०" [२. ३. १५.] इत्यादिसूत्रेण भवत्येव; अस्यापि नेच्छन्त्येके-प्रत्यसीसदत्, प्रतिसिसत्सति । तुर्विशेषणार्थः, परोक्षायामेष विशेषोऽन्यत्र तूभयत्रापि भवति ।। ४४ ।। 25,
न्या० स०-सदो । “षद्लु विशरण." इत्यस्य "षद्लुत् अवसादने" इत्यस्य