________________
[ पा० ३. सू० ४१-४२.] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२१
न्या स० —— स्था-सेनि० । अथ सुस्थितो दुस्थित इत्यादौ कथं षत्वाभावः ? उच्यतेउपसर्गप्रतिरूपका निपाता एते इत्युपसर्गत्वाभावात् षत्वाभावः । ण्यन्तानामपीति - गिगः प्रागेवोपसर्गसंबन्धात् । अषोपदेशार्थमिति - प्रषोपदेशत्वं च सह इनेन वर्तते इति व्युत्पत्तौ, सर्वेऽपि साधितस्यापि वा व्युत्पत्तिपक्षे । स्था-सञ्जोरिति-उपसर्गस्थस्य नामिनोऽवरर्णान्तेन द्विर्वचनेनेत्यर्थः । नियमबाधनार्थमिति - सेनेस्तु "रिण- स्तोरेवा ०' इति सिद्धं तिष्ठतेस्तु सन् षत्वरूपो नास्तीति ।। २. ३. ४० ।।
"1
[२. ३. ३७.] 5
अडप्रतिस्तब्ध - निस्तब्धे स्तम्भ ॥। २. ३. ४१ ॥
उपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परस्य स्तम्भः सकारस्य द्वित्वेऽपि अटयपि षो भवति, न चेदसौ स्तम्भिर्डे प्रतिस्तब्धे निस्तब्धे च विषये भवति । विष्टभ्नाति, प्रतिष्टभ्नाति, वितष्टम्भः, प्रतितष्टम्भः, प्रतिताष्टभ्यते, 10 अभितिष्टम्भिषति, व्यष्टभ्नात् प्रत्यष्टभ्नात् । ग्रङ- प्रतिस्तब्ध - निस्तब्ध इति किम् ? व्यतस्तम्भत्, प्रत्यतस्तम्भत्, प्रतिस्तब्धः, निस्तब्ध: ।। ४१ ।।
न्या० स० - अङ प्रति० । ष्टभुङ इत्यस्य लाक्षणिकत्वात् न ग्रहरणमिति नैयासिकाः प्राहुः, पारायणकारैस्तु प्रस्यापि षत्वं कृतम् एवमुत्तरसूत्रेऽपि ज्ञेयम् ।। २. ३. ४१ ।।
15
अवाच्वाश्रयोर्जाविदूरे ॥ २. ३. ४२ ॥
प्रवादुपसर्गात् परस्य स्तम्भः सकारस्याश्रयादिष्वर्थेषु गम्यमानेषु द्वित्वेऽपि पि षो भवति, ङे - ङविषयश्च ेत् स्तम्भिर्न भवति । श्राश्रयःआलम्बनम् – दुर्गमवष्टभ्नाति, दुर्गमवष्टभ्यास्ते, अवतष्टम्भ दुर्गम्, दुर्गमवाष्टभ्नात्; ऊर्ज-ऊर्जित्वम् - ग्रहो वृषलस्यावष्टम्भः प्रवष्टब्धो रिपुः शूरेण ; 20 अविदूरमनतिविप्रकृष्टम् – प्रसन्नमदूरासन्न च गृह्यते—प्रवष्टब्धा शरात्, अवष्टब्धा सेना । प्रवादिति किम् ? प्रस्तब्धः । चकारोऽङ इत्यस्यानुवृत्त्यर्थोऽनुक्तसमुच्चयार्थश्च तेन - 'उपष्टम्भः, उपष्टम्भकः, उपष्टब्ध:' इत्यादावुपादपि भवति । उपावादित्यकृत्वा चकारेण सूचनमनित्यार्थं तेनोपस्तब्ध इत्यपि भवति । श्रयादिष्विति किम् ? प्रवस्तब्धो वृषलः शीतेन । ग्रङ इत्येव - 25 अवातस्तम्भत् ।। ४२ ।।