________________
३१४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० २६-३०.]
न्या० स०-वि-कु-शमि०। नाम्नीति निवृत्तम् विष्ठलादिशब्दात् संज्ञाया । अप्रतीतेः उत्तरत्र गोत्रग्रहणाद् वा। स्थलमिति-तिष्ठत्यत्र सिकतादिकमिति “स्थो वा" [ उणा० ४७३. ] अल:-स्थलः। शमिष्ठलमिति-शमिशब्द: शमशब्दो वा, शमे: "इतोऽक्त्य." [ २. ४. ३२. ] इति ङीः । अत्र शमाद् गौरादित्वाद् ङी:। वि-कुशब्दावव्यया-ऽनव्ययौ विशेषानुपादानाद् द्वावपि गृह्य ते, तत्राव्ययपक्षे “गतिक्वन्य०" [ ३. १. 5 ४२. ] इति “प्रात्यव०" [ ३. १. ४७. ] इति च तत्पुरुषोऽन्यत्र षष्ठीसमास इत्याहविगतं वीनां वेति । दीर्घान्न भवतीति-बाहुलकान ह्रस्व इत्यर्थः ।। २. ३. २८ ।।
कपेगोत्रे ॥ २. ३. २६ ॥
कपिशब्दात् परस्य स्थलशब्दसंबन्धिन: सकारस्य समासे षो भवति, गोत्रेऽभिधेये । कपिष्ठलो, नाम गोत्रस्य प्रवर्तयिता, यस्य कापिष्ठलिः पुत्रः । 10 गोत्रमिह लौकिकं गृह्यते, लोके चाद्यपुरुषा येऽपत्यसंततेः प्रवर्तयितारो यन्नाम्नोऽपत्यसंततिर्व्यपदिश्यते तेऽभिधीयन्ते । गोत्र इति किम् ? कपीनां स्थलं कपिस्थलम् ।। २६ ।।
न्या० स०-कपेः। कपिभिरावृतं स्थलमस्य तस्यापत्यं "बाह वादिभ्यो गोत्रे" [ ६. १. ३२. ] इञ् प्रत्ययः । गोत्रमिहेत्यादि-न तु स्वापत्यसन्तानस्येत्यादि-लक्षणं15 शास्त्रीयम् ।। २. ३. २६ ।।
गो-अम्बा-99म्ब-सव्या-अप-दिव-त्रि भूम्यग्नि-शेकु-शाक्वडणु-मजि-पुझिज-बहिःपरमे-दिवे स्थस्य ॥ २. ३. ३० ॥
'गो अम्बा अाम्ब सव्य अप द्वि त्रि भूमि अग्नि शेकु शकु कु अगु मजि पुजि बर्हिस् परमे दिवि' इत्येतेभ्यः परस्य स्थशब्दसंबन्धिनः सकारस्य20 समासे षो भवति। गोष्ठम्, अम्बाष्ठः, “ड्यापो बहुलं नाम्नि" [२. ४. ६६.] इति हृस्वत्वे अम्बष्ठः, श्लिष्टनिर्देशादुभाभ्यामपि भवति-आम्बष्ठः; सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः, शेकुष्ठः, शङ्कुष्ठः, कुष्ठः, अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बहिष्ठः, परमेष्ठः, दिविष्ठः, अत एव निपातनात् सप्तम्या अलुप्, “तत्पुरुषे कृति" [३. २. २०.] इति तु "नेम्-25 सिद्धस्थे” [३. २. २६.] इति प्रतिषेधात् नोपतिष्ठते ॥ ३० ।।
न्या० स०-गोऽम्बाम्ब० । आम्बष्ठः अम्ब्यते अपह्नवकारितया घत्रि, अथवा