________________
[पा० ३. सू० २६-२८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३१३
10
एत्यकः ॥ २. ३. २६ ॥
ककारवजितान्नाम्यन्तस्थाकवर्गात् परस्य सकारस्य एति-एकारे परे समासे षो भवति, नाम्नि । हरिषेणः, श्रीषणः, वायुषेणः, मातृषेणः । एतीति किम् ? हरिसिंहः । अक इति किम् ? विष्वक्सेनः, शतभिषक्सेनः । नाम्नीत्येव-पृथ्वी सेनास्य-पृथुसेनः । नाम्यन्तस्थाकवर्गादित्येव-सर्वसेनः, 5 महासेनः ।। २६ ॥
न्या० स०--एत्यकः। विष्वक्सेनः विषुवति परसेनां विषूः, प्रेरकः, तमञ्चति क्विपि ङ्यां विषची; विषुशब्दोऽव्ययं वा नानात्वे वर्तते, तदञ्चति; यद्वा विष्वगित्यव्ययं सामस्त्ये च वर्तते, पश्चात् त्रिष्वपि बहुव्रीहिः ।। २. ३. २६ ।।
भादितो वा ॥ २. ३. २७ ॥
भं-नक्षत्रं, तद्वाचिन इकारान्तात् परस्य सकारस्यैकारे परे समासे षो वा भवति, नाम्नि। रोहिणिषेणः, रोहिणिसेनः; रेवतिषेणः, रेवतिसेनः; भरणिषेणः, भरगिसेनः; "ड्यापो बहुलं नाम्नि" [२. ४. ६६.] इति ह्रस्वः । इत इति किम् ? पुनर्वसुषेणः, अत्र पूर्वेण नित्यमेव, शतभिषक्सेनः ।। २७ ॥
न्या० स०--भादि० । बिभर्ति करणेऽनटि, "ऋ-हृ०" [उणा० ६३८.] इत्याद्यणौ वा भरणिः । रोहिण्य इव रेवत्य इव भरण्य इव कल्याणिनी सेना यस्येति । पुनर्वसुषेण इत्यादि-पुनर्वस्वनयोराराधितयोः पुनर्वसू, शतभिषज् नक्षत्रमतो भ इति व्यावृत्तेन द्वयङ्गवैकल्यम् ।। २. ३. २७ ॥
वि-कु-शमि-परे। स्थलस्य ॥ २. ३. २८ ॥
वि-कु-शमि-परिभ्यः परस्य स्थलशब्दसंबन्धिनः सकारस्य समासे षो भवति । नाम्नीति निवृत्तम् । विगतं वीनां वा पक्षिणां स्थलं-विष्ठलम्, कुत्सितं को:-पृथ्व्या वा स्थल-कुष्ठलम्, शमीनां स्थलं शमिष्ठलम्, “ड्यापो बहुलं नाम्नि" [२. ४. ६६.] इति ह्रस्वः, सूत्रे ह्रस्वस्य शमिशब्दस्योच्चारणाद् दीर्घान्न भवति-शमीस्थलम्, दीर्घादप्येके; परिगतं स्थलं परिष्ठलम् ।25 एभ्य इति किम् ? भूमिस्थलम् ।। २८ ।।
15