________________
[पा० २. सू० ६२-६३.] श्रोसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २८१ ]
प्रजानाम्;" "ज्ञानेच्छा०" [५. २. ६२.] इत्यादिसूत्रेण सत्यत्र क्तः । कथं शीलितो मैत्रेण ?, रक्षितश्चैत्रेण ?; भूतेऽयं क्तः, वर्तमानताप्रतीतिस्तु प्रकरणादिनेति । अन्ये तु ज्ञानेच्छार्थिताच्छील्यादिभ्योऽतीते क्त नेच्छन्ति, तन्मते-अपशब्दावेतौ। आधारे-इदमोदनस्य भुक्तम्, इदं सक्त नां पीतम्, इदमहेः सृप्तम्, इदमेषामासितम्; "अद्यर्थाच्चाऽऽधारे" [५. १. १२.] 5 इति क्तः ।। ६१ ।।
न्या० स०--क्तयोर०। ननु सन् धात्वर्थः, तत्र धातुरेव वर्तते, कृ प्रत्ययस्तु "कर्तरि" [ २. २. ८६. ] इत्यादिना कारके भावे च विधीयते, तत्र सति प्रत्ययविधिरेव नास्ति कथं प्रतिषेधः-सतोऽन्यस्मिन्नर्थ इति, नैष दोषः-सदर्थसहचारी प्रत्ययार्थोऽपि सन्नित्युच्यते ; यद्वा धात्वर्थोऽपि सन्निति प्रत्ययत एव विज्ञायते, नहि धातुतः क्रियालभरणो10 धात्वर्थो भूतो भवन् भविष्यन्निति वा ज्ञातु शक्यः, धातुर्हि क्रियामात्रमाह, न त्वमु विशेषम्, स तु प्रत्ययादेव प्रतीयत इति कादिकारकवृत्तिरपि प्रत्ययः सतीति विज्ञायते । कथमिति-शीलितो मैत्रेणेत्यादावपि-"ज्ञानेच्छा." [५. २. ६२.] इति क्तः, वर्तमानताप्रतीतिरप्यस्ति, तत् कथं निषेध इत्याशङ्कार्थः। भूतेऽयं क्त इति-यद्ययं भूते क्तः कथं वर्तमानताप्रतोति: ? उच्यते-वर्तमानमध्ये भूतो भविष्यंश्च कालोऽस्त्यतो भूते क्तः, यथा15 कटं करोतीत्यत्र कटस्य येऽवयवा निष्पन्नास्तदपेक्षयाऽतीतत्वं, ये च निष्पद्यमानास्तदपेक्षया वर्तमानत्वं, ये च निष्पत्स्यन्ते तदपेक्षया भविष्यत्वम् । अहेः सप्तमिति-सदाधारादन्यत्र चातु:शब्द्यं भवति, यदा कर्तरि क्तस्तदा-इममहिः सृप्तो देशं, यदा कर्मणि तदा-अयमहिना सृप्तो देशः, भावे तु “वा क्लीबे" [२. २. ६२.] इति वा षष्ठ्यामहेः सृप्तमहिना सृप्तमिति ।। २. २. ६१ ॥
20
वा क्लीबे ॥ २. २. ६२ ॥ . क्लीबे यो विहितः क्तस्तस्य कर्तरि षष्ठी वा न भवति । छात्रस्य हसितम्, छात्रेण हसितम्; मयूरस्थ नृत्तम्, मयूरेण नृत्तम्; कोकिलस्य व्याहृतम्, कोकिलेन व्याहृतम्; इहाहेः सृप्तम्, इहाऽहिना सृप्तम् । क्लीब इति किम् ? चैत्रेण कृतम्, "क्तक्तवतू" [५. १. १७४.] इति भावे क्तः ।25 पूर्वेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ।। ६२ ॥
अकमेरुकस्य ॥२. २. ६३ ॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न भवति । अागामुकं