________________
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० २. सू० ६० - ६१.]
तुन्नुदन्ता-व्यय-क्वस्वाना-तृश् - शतृङि-णकच्खलर्थस्य ॥ २. २. ६० ।।
२८० ]
तृन उदन्तस्य अव्ययस्य क्वसोरानस्य प्रवृशः शतुः ङे: रणकचः खलर्थस्य च कृतः संबन्धिनोः कर्मकर्त्रीः षष्ठी न भवति । तृन् - वदिता जनाऽपवादान्; उदन्त - कन्यामलंकरिष्ण ु: रिपून् जिष्ण ु, शरान् क्षिप्ण:, 5 प्रोदनं बुभुक्षुः, देवान् वन्दारुः, धारुर्वत्सो मातरम्, श्रद्धालुस्तत्त्वम्; अव्ययकटं कृत्वा, पयः पाय पायं व्रजति, प्रोदनं भोक्तुं व्रजति; क्वसु-प्रोदनं पेचिवान्, तत्त्वं विद्वान्; ग्रानेति उत्सृष्टाऽनुबन्धनिर्देशात् कान - शाना- ऽऽनशां ग्रहणम्, कटं चक्रारणः, वचनमनूचानः; शान - मलयं पवमानः, कतीह कवच मुद्वहमानाः, कतीह शत्रून् निघ्नानाः, कतीह वपुर्भूषयमारणाः; श्रनश् - 10 प्रोदनं पचमानः, चैत्रेण पच्यमानः, कटं करिष्यमाणः, अतृश् - प्रधीयंस्तत्त्वार्थम्, धारयन्नाचाराङ्गम्; शतृ-कटं कुर्वन्, कटं करिष्यन्; ङि - परीषहान् सासहिः, कटं चत्रिः, दधिश्चित्तम्; णकच् - एधानाहारको व्रजति, कटं कारको व्रजति; चिन्निर्देशात् एकस्य न भवति - वर्षशतस्य पूरक:, पुत्रपौत्रस्य दर्शकः; खलर्थः-ईषत्करः कटो भवता, सुज्ञानं तत्त्वं भवता ।। ६० ।।
15
न्या० स० -- तृन्नुदन्ता० । “कर्मरिण कृतः” [ २. २. ८३. ] " कर्तरि " [ २. २. ८६. ] इति च प्राप्तायाः षष्ठ्या अपवादः । पायं पायं "रुणम् चाभीक्ष्ण्ये" [ ५. ४. ४८. ] “भृशा०” [ ७. ४. १७३ ] इति द्वित्वं च । भोक्तुं व्रजतीति श्रत्र हेतुहेतुमद्भावे तृतीया, "तुमोऽर्थे० " [ २. २. ६१. ] इत्यनेन चतुर्थी वा संबन्धविवक्षायां षष्ठी वा । परिषह्यन्ते “स्थादिभ्यः कः” [ ५. ३. ८२. ] "सोङसिवू सहस्सटाम्” [ २. ३. ४८. ]20 षत्वम्-परीषहाः, “घञ्युपसर्गस्य०" [ ३. २. ८६. ] इति दीर्घः । प्रहरिष्यतीति “क्रियायाम्०” [ ५. ३. १३. ] इति णकचि - आहारकः ।। छ । । २. २. ६०.]
क्तयोरसदाधारे ॥। २. २. ६१ ॥
सतो वर्तमानादाधाराच्चान्यस्मिन्नर्थे विहितौ यौ तौ - क्तक्तवत् तत्संबन्धिनोः कर्म-कर्त्रीः षष्ठी न भवति । कटः कृतो मैत्रेण, कटं कृतवान् ; 25 गतो ग्रामं चैत्रः, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां ज्ञातः, राज्ञां बुद्धः, राज्ञां मतः, राज्ञामिष्टः, राज्ञां पूजितः, "कान्तो हरिश्चन्द्र इव
T