________________
२७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ८१.]
जानाति । करण इत्येव–तैलं सर्पिषो जानाति तैलं सर्पीरूपेण प्रतिपद्यत इत्यर्थः, अत्र तैलात् कर्मणो मा भूत्, सर्पिषस्तु करणत्वाद् भवत्येव । तृतीयाsपवादो योगः ।। ८० ।।
न्या० स० -- श्रज्ञाने० । वेति निवृत्तमिति - भिन्नविभक्तिविधानादिति शेषः । सर्पिषो जानीते अत्र "ज्ञः " [३. ३. ८२. ] इत्यात्मनेपदम् । अत्र करणस्य संबन्धिरूप - 5 विवक्षया सर्पिष इदं ज्ञानं नान्यस्येति षष्ठी सिध्यतीति किमर्थोऽयं योग इत्याहतृतीयापवादो योग इति प्रयमर्थः - सिध्यति षष्ठी, किन्तु कररणविवक्षायां तृतीया मा भूदित्ययं योगः । सर्पिषामिति - आज - गव्य माहिषाणां घृतानामित्यर्थः ।। २.२.८० ।।
शेषे ।। २.२. ८१ ॥
कर्मादिभ्योऽन्यः क्रियाकारकपूर्वकः कर्माद्यविवक्षालक्षरणोऽश्रूयमारणक्रियः 10 श्रूयमाणक्रियो वाऽस्येदंभावरूपः स्वस्वामिभावादिः संबन्धविशेषः - शेषः, तत्र गौरणान्नाम्नः षष्ठी भवति । राज्ञः पुरुषः, उपगोरपत्यम्, पशोः पादः, वृक्षस्य शाखा, क्षीरस्य विकारः, गवां समूहः, कुम्भस्य समीपम्, पृथिव्याः स्वामीति, न माषाणामश्नीयात्, सुभाषितस्य शिक्षते, न ते सुखस्य जानते, न तस्य सायमश्नीयात्, अन्नस्य नो देहि, अक्षारणां दीव्यति, घ्नतः पृष्ठं ददाति, नटस्य 15 शृणोति, वृक्षस्य पर्णं पतति, महतां विभाषते । कथं पुनः कर्मादीनां सतामप्यविवक्षा ? यथा - अनुदरा कन्या, अलोमिका एडकेति । गौरणादित्येवराज्ञः पुरुषः, अत्र संबन्धस्य द्विष्ठत्वेऽपि प्रधानात् पुरुषान्न भवति, प्राधान्यं चास्याऽऽख्यातपदसामानाधिकरण्यम्, तेन ततः प्रथमैव भवति, यदा तु पुरुषो राजानं प्रति गुणत्वं प्रतिपद्यते तदा पुरुषस्य राजेति भवत्येव । कथं राज्ञ: 20 पुरुषस्य कम्बल इति ? राजाऽपेक्षया पुरुषस्य प्राधान्येऽपि कम्बलाऽपेक्षया गौणत्वाद् भवति । प्रथमापवादो योगः ।। ८१ ।।
न्या० स० - - शेषे० । सरस्वतीकण्ठाभरणे कर्मादिकारकारिण, इन्द्र- चान्द्राभ्यां करणप्राधान्यं श्रुतपालेन कलापके चाऽपादानस्य प्राधान्यं शकटाभिप्रायेण स्वमते च कर्तु : प्राधान्यत् । क्रियाकारकपूर्वक इति - क्रिया च कारकं च क्रियाकारके, ते पूर्वे यस्य 25 स तथा, यथा- राजपुरुषः, राजा कर्ता पुरुषं बिर्भात तो राजपुरुष इत्युच्यते । कर्माद्यविवक्षालक्षरण इति - कर्मादिभ्योऽन्य इति तु विशेषेभ्योऽन्यत्वं विवक्षितुं न तु सामान्यादनाश्रितविशेषात् कारकादपि । अश्रूयमारणक्रियः यथा - राज्ञः पुरुष इत्यादि ।
T