________________
[पा० २. सू० ६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २१६
[२. २. ८५.] इत्यनेन षष्ठीप्रवृत्तिः स्यान्न विकल्पस्तदा द्वितीये कर्मणि "कर्मणि कृतः" [२. २. ८३.] इत्यनेन नित्यं षष्ठी स्यात, कतप्रधानदेवदत्तशब्दात तू "द्विहेतोरस्त्र्यणकस्य वा" [२. २. ८७.] इत्यनेन प्राप्तकर्तृ षष्ठीविकल्पात् तृतीया; "वैकत्र द्वयोः" [२. २. ८५.] इत्यस्य “द्विहेतोरस्त्र्यणकस्य वा' [२. २. ८८.] इत्यस्य च प्रवृत्त्यूदाहरणंकारयिता कटस्य देवदत्तस्य, कटं देवदत्तस्य वेति गम्यमपि ज्ञेयम्, अत्र तु निष्प्रयोजन्नत्वान्न 5 दर्शितम् ॥ २. २. ८ ॥
दृश्यभिवदोरात्मने । २. २. ६ ॥
दशेरभिपूर्वस्य वदतेऽश्चाऽत्मनेपदविषयेऽणिक्कर्ता पौ कर्मसंज्ञो वा भवति। पश्यन्ति भृत्या राजानम्, तान् राजैवानुकूलाचरणेन प्रयुक्त-दर्शयते राजा भृत्यान् भृत्यैर्वा ; अभिवदति गुरु शिष्यः, अभिवादयते गुरुः शिष्यं शिष्येण10 वा; अथवा-अभिवदति गुरु शिष्यः, तं मैत्रः प्रयुक्त -अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः; एवं-दर्शयमानो राजा भृत्यान् मृत्यैर्वा, अभिवादयमानो गुरुः शिष्यं शिष्येण वा; अथवा-अभिवादयमानो गुरु शिष्यं शिष्येण वा मैत्रः । अात्मन इति किम् ? पश्यति रूपतर्कः कार्षापणम्, दर्शयति रूपतक कार्षापणम् ; अभिवदति गुरु शिष्यः, अभिवादयति गुरु शिष्येण ।15 दृशेर्बोधार्थत्वेन नित्यं कर्मत्वे प्राप्ते, अभिवदेस्तु नित्यमप्राप्ते विकल्पः; यदा तु अभिवदिर्न प्रणामार्थः, किन्तु शब्दक्रियस्तदा-अभिवादयति गुरु शिष्यं मैत्र इति नित्यं प्राप्त विभाषेति । णिजन्तस्यापि वणिगीच्छन्त्येके-अभिवादयति गुरुर्देवदत्तम्, तस्मिन्नाशिषं प्रयुक्त इत्यर्थः, अभिवादयते गुरु देवदत्तो गुरुणेति वा; आत्मन्याशिष प्रयोजयतीत्यर्थः । णिगन्तस्यापीति कश्चित्-अभिवदति20 गुरुः स्वयमाशिषम्, तं शिष्यः प्रयुक्त-अभिवादयति गुरुमाशिषं शिष्यः, तं मैत्रः प्रयुक्त-अभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । नामधातोरभिवादयतेरपीच्छत्यन्यः ।। ६ ।।
न्या० स०--दृश्यभि० । दर्शयते राजेति-अत्र “अणिक्कर्म०" [३. ३. ८८.] इत्यात्मनेपदम् । अभिवादयते गुरु शिष्यं शिष्येण वा मैत्र इति-फलवत्त्वविवक्षाया-25 मात्मनेपदम् । अभिवादयति गुरुर्देवदत्तमित्यत्र "युजादेर्नवा" [३. ४. १८.] विकल्पेन णिचि णिजभावपक्षे आत्मनेपदं चरितार्थं, वाक्यावस्थायां परस्मैपदमत्र । कश्चिदिति दुर्गसिंहमतम् । अन्य इति रत्नमतिः, तथा च स आह-सुब्धातुर्नामधातुरित्यर्थः ॥ २.२.४ ।।