________________
२१८ ]
बृहइवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ८.]
दिवत् प्रवेयः । प्राप्त्यर्थस्य प्रापणार्थस्य च वहेर्गत्यर्थत्वाद्, अकर्मकस्य च । नित्याऽकर्मकत्वात् पूर्वेण सिद्धे नियमार्थम्, अविवक्षितकर्मकस्य तु पक्षे विध्यर्थं चेदम् ।। ७ ।।
न्या० स०--वहेः प्र०। सूत्रतात्पर्यमाचष्टे-प्राप्त्यर्थस्येति-तत्र वहतिः प्राप्त्यर्थो यथा-वहन्ति बलीवर्दा:-देशान्तरं प्राप्नुवन्तीति, अत्रानेकार्थत्वात् प्राप्त्यर्थः, यद्वाऽरिण- 5 गन्तस्यानटि प्रापणमिति रूपे प्राप्त्यर्थत्वम् ; प्रापणार्थो यथा-ग्रामं भारं वहति बलीवर्द:ग्रामं प्रापयतीति, अत्रापि प्रापणोपसर्जने [नं] प्राप्तिरस्त्येव तेन गत्यर्थत्वम् ; अकर्मको यथा-वहति नदी-स्यन्दत इत्यर्थः, अनेकार्थत्वात् स्यन्द्यर्थः । वाहयिता भारं बलीवानामिति-पत्र बलीवर्दशब्दान् “वैकत्र द्वयोः" [ २. २. ८५. ] इति प्राःषष्ठीविकल्पाद् द्वितीया, तद्विमुक्तपक्षे भारस्येत्यत्र “कर्मणि कृतः" [२: २. ८३.] इत्यनेन षष्ठो, द्वितीय-10 प्रयोगे त्वेतद्विपर्ययः; “वैकत्र द्वयोः" [२. २. ८५.] इति षष्ठीप्रवृत्त्युदाहरणं तु-वाहयिता भारस्य बलीवर्दानामिति गम्यमपि ज्ञेयम्, अत्र तु निष्प्रयोजनत्वान्न दर्शितम् ।। २. २. ७ ।।
हु-क्रोर्नवा ॥२. २. ८ ॥
हरतेः करोतेश्चाणिक्कर्ता णौ कर्मसंज्ञो वा भवति, प्राप्ते चाप्राप्ते चायं विकल्पः । प्राप्ते-विहरति देशमाचार्यः, विहारयति देशमाचार्यमाचार्येण वा; 15 एवम्-आहारयत्योदनं बालकं बालकेन वा; विकुर्वते सैन्धवाः, विकारयति सैन्धवान् सैन्धवैरिति वा; विकुरुते स्वरं क्रोष्टा, विकारयति स्वरं क्रोष्टारं क्रोष्टुना वा; अत्र गत्यर्था-ऽहारार्थ-नित्याकर्मक-शब्दकर्मकत्वेन यथासंख्यं प्राप्तिः । अप्राप्ते-हरति द्रव्यं मैत्रः, हारयति द्रव्यं मैत्रं मैत्रेण वा; करोति कटं चैत्रः, कारयति कटं चैत्रं चैत्रेण वा; अत्र हरतिश्चौर्यार्थो न प्रापणार्थ 20 इत्यप्राप्तिः। प्रापणार्थत्वे तु प्राप्ते विभाषा। कारयिता कटस्य देवदत्तं देवदत्तेन वा, कारयिता कटं देवदत्तस्य देवदत्तेन वा ।। ८ ।।
न्या० स०-ह-क्रो०। हसाहचर्यान् कृधातोरपि भ्वादेरेव ग्रहः, तेन “कृ त् विक्षेपे" "कृगट हिंसायाम्" इत्यनयोर्व्यवच्छेदः। प्राप्ते चेति-यदा हरतिर्गतौ वर्ततेऽभ्यवहारे वा, करोतिश्च वल्गनादावकर्मक: शब्दकर्मकश्च, तदा पूर्वेण प्राप्ते, यदा हरति:25 स्तेयादौ वर्तते, करोतिश्च सकर्मको भवति, तदाऽप्राप्ते विशेषानुपादानादुभयत्र विकल्पोऽयमिति । कारयिता कटस्य देवदत्तं देवदत्तेन वेति-प्रथमप्रयोगे देवदत्तशब्दाद् द्वितीयप्रयोगे तु कटशब्दात् “वैकत्र द्वयोः" [२. २. ८५.] इत्यनेन प्राप्तषष्ठीविकल्पाद् द्वितीया, तद्विमुक्तकर्मणि "कर्मणि कृतः" [२. २. ८३.] इत्यनेन षष्ठी, यद्यत्र "वैकत्र द्वयोः"