________________
[पा० ४. सू० ७५-७६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १२७
आ अम्-शसोऽता ॥ १. ४. ७५ ॥
प्रोकारस्याम्-शसोरकारेण सह आकारो भवति । गाम्, सुगाम्, गाः, सुगाः पश्य; द्याम्, अतिद्याम्, द्याः, सुद्याः पश्य । स्यादावित्येव ? अचिनवम् ।। ७५ ।।
न्या० स०-आ अमित्यादि । नन्वत्र अतेति किमर्थम् ? यत एतद्विनाऽपि 'गाः' 5 इत्यादि प्रयोगजातं “समानानां०%" [१. २. १.] इति दीर्घ सिद्धयतीति, उच्यतेअतेति पदं विना पुलिङ्ग "शसोऽता०" [ १. ४. ४६. ] इति स्त्रीलिङ्ग “लुगातोऽनापः" [२. १. १०७.] इति प्रवर्तेयाताम्, ततश्च 'गान्, गः' इत्याद्यनिष्टं स्यात्, स्थिते तु "शसोऽता०" [१. ४. ४६.] इत्यनेनैव दोघस्य संनियोगे नकारोऽभाणि । अचिनवमितिअत्र प्रादौ “समानादमोऽतः" [१. ४. ४६.] इत्यमोऽकारस्यापि लुग् न भवति, तत्रापि10 स्याद्यधिकारात् ।। ७५ ॥
पथिन्-मथिनुभुक्षा सौ ॥ १. ४. ७६ ॥
'पथिन्, मथिन् ऋभुक्षिन्' इत्येतेषां नकारान्तानामन्तस्य सौ परे आकारो भवति । पन्थाः, हे पन्थाः !; मन्थाः, हे मन्थाः !; ऋभुक्षाः, हे ऋभुक्षा: !; अमन्थाः, सुमन्थाः, बहुऋभुक्षाः । साविति किम् ? 15 पन्थानौ । कथं हे सुपथिन् ! हे सुपथि कुल !, हे सुमथिन् ! हे सुमथि कुल !? अत्र नित्यत्वान्नपुंसकलक्षणायाः सेलृपि सेरभावान्न भवति । नकारान्तनिर्देशादिह न भवति-पन्थानमिच्छति क्यनि नलोपे क्विपि च-पथीः, मथीः, ऋभुक्षीः ।। ७६ ।।
न्या० स०--पथिनित्यादि-अत्र घुटीति सम्बन्धात् साविति श्लिष्ट निर्देशन सुप्20 न गह्यते । पन्था इति-पत्र सानुनासिकस्याप्यादेशो भवन "लि लौ" [ १.३.६५. । इत्यत्र द्विवचनेनैव ज्ञापितत्वाद् निरनुनासिक एव भवति । पथीरिति-पन्थानमिच्छति क्यनि नलोपः, स च “दीर्घश्च्वियङ" [ ४. ३. १०८. ] इति परे कार्येऽसन्न भवति, यतः "रात् सः" [ ३. १. ६०.] इत्यतः प्रागेव यत् सूत्रं तदेवासद् भवति, इदं तु "रात् सः" [२. १. ६०. ] इत्यत: परमिति नासत्, ततः पथीयतीति क्विपि अलोपे25 यलोपे चेदं रूपम् । नन्वनेनाऽऽत्वरूपे स्यादिविधौ विधातव्ये नलोपस्यासिद्धत्वान्नान्तत्वमस्ति, न च वाच्यम् “अतः' [ ४. ३. ८२. ] इत्यल्लुक: "स्वरस्व परे०" [७.४.११०.] इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यतः प्रत्यासत्तेर्यनिमित्तो लुक् विधिरपि यदि तन्निमित्तो भवतीति व्याख्यानात्, अत्र तु अस्य लुक् क्विपि, प्रात्वं तु सौ प्रत्यये