________________
१२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ७३-७४.]
धुडन्तत्वाभावान्न भवति । ननु 'अनड्वान्' इत्यत्र "स्रस्-ध्वंस्-क्वस्व०" [२. १.६८.] । इत्यादिना दकारः कथं न भवति ? सत्यम्-प्राप्नोति परं विधानसामर्थ्यान्न भवति ॥ ७२ ।।
पुसो पुमन्स् ॥ १. ४. ७३ ॥
'पुंसु' इत्येतस्योदितस्तत्संबन्धिन्यसंबन्धिनि वा घुटि परे 'पुमन्स्' 5 इत्ययमादेशो भवति । पुमान्, पुमांसौं, पुमांसः, पुमांसम्, ईषदूनः पुमान्बहुपुमान्, प्रियपुमान्, प्रियपुमांसि कुलानि, हे पुमन् ! । घुटीत्येव ? पुंसः पश्य, बहुपुंसी कुले। पुंसोरुदित्त्वात् 'प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरा' इत्यादौ डीह स्व-पुंवद्विकल्पश्च भवति ।। ७३ ।।
न्या० स०--पुसोरित्यादि। पुसोरुदित्त्वादिति-ननु “पातेईम्सुः" [उणा०10 १००२.] इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुसीतरेत्यादि रूपत्रयं सेत्स्यति, किमत्रोदनुबन्धेन ? उच्यते-यदा अव्युत्पत्त्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम्, व्युत्पत्ती तु फलमौणादिकस्य, यथा-भवतुशब्दो “भातेर्डवतुः" [ उणा० ८८६. ] इति व्युत्पादितोऽपि सर्वादौ उदनुबन्धः पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति-बहुत्वे वाक्यम्, एकत्वे तु "पुमनडुन्नौ०" [७. ३. १७३.] इति कच् स्यात् । ङोह्रस्व-पुंवद्विकल्पेति-15 ङीनित्यं ह्रस्व-पुवत्त्वयोश्च विकल्पः ।। ७३ ।।
ओत
औः ॥ १. ४. ७४ ॥
ओकारस्य श्रोत एव विहिते घुटि परे औकार आदेशो भवति । गौः, गावौ, गावः; द्यौः, द्यावौ, द्यावः; लुनातीति विच्-लौः, शोभनो गौःसुगौः, एवम्-अतिगौ; प्रियद्यावी, अतिद्यावौ, हे गौः !, हे द्यौः !, किंगौः,20 अगौः । श्रोत इति किम् ? चित्रा गौर्यस्य-चित्रगुः, चित्रगू। विहितविशेषणादिह न भवति-हे चित्रगवः ! । घुटीत्येव ? गवा, धवा ।। ७४ ।।
न्या० स०-प्रोत औरिति । चित्रगुरिति-अत्र परत्वात् पूर्वं ह्रस्वत्वे कृते पश्चाद् घुटि प्रोकाराभावाद् 'प्रोतः' इति वचनादौकारौ न भवति, वर्णविधित्वाच्च स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो!' इत्यत्र प्रोकारस्य विद्यमानत्वाद् उभयो: स्थानिनो:25 स्थाने०* इति न्यायेन सेर्व्यपदेशे सति प्राप्नोति कस्मान्न भवति ? उच्यते-यदा. उकारव्यपदेशस्तदा सेरभावाद् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान्न भवति ।। ७४ ।।