________________
[पा० ४. सू० ३८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ १०६
पितुः; मातुः, मातुः । ङसि-ङस इत्येव ? पितृ न् । ऋत इति किम् ? ग्रः ।। ३७ ॥
न्या० स०-ऋतो डुरिति । * ऋकारोपदिष्टं लुकारस्यापि तेन "ऋफिडा." [ ४. ४. ११६. ] इति लत्वम्, कुल् लकारः, यदाह उपाध्यायः-'पाप्लु' इत्येतस्मात् षष्ठयामापुल् इत्येव भवति ।। ३७ ।।
5
तु-स्वसु नप्तु-नेष्ट-त्वष्ट-क्षत होते-पोतु-प्रशास्त्रो
छुटयार् ॥ १. ४. ३८ ॥ तृच्-तृन्प्रत्ययान्तस्य स्वस्रादिशब्दानां च सम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यसम्बन्धिनि वा घुटि परे 'पार्' इत्ययमादेशो भवति । कर्तारम्, कर्तारौ, कर्तारौ, कर्तारः कटस्य; वदितारम्, वदितारी, वदितारौ, वदितारो10 जनापवादान् ; स्वसारम्, स्वसारौ, स्वसारौ स्वसारः; नप्तारम्, नप्तारी, नप्तारौ, नप्तारः; नेष्टारम्, नेष्टारौ, नेष्टारौ, नेष्टारः; त्वष्टारम्, त्वष्टारौ, त्वष्टारौ, त्वष्टारः; क्षत्तारम्, क्षत्तारौ, क्षत्तारौ, क्षत्तारः; होतारम्, होतारौ, होतारौ, होतारः; पोतारम्, पोतारौ, पोतारौ, पोतारः; प्रशास्तारम्, प्रशास्तारी, प्रशास्तारौ, प्रशास्तारः; अतिकर्तारम्, अतिकर्तारौ,15 अतिकर्तारौ, अतिकर्तारः । घुटीति किम् ? कर्तृ कुलं पश्य । सौ तु परत्वाद् डा-गुणौ कर्ता, हे कर्तः ! । तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणान्नप्त्रादीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्दस्य ग्रहणं न भवतीति तेषां पृथगुपादानम् ; इदमेव च ज्ञापकम्-*अर्थवद्ग्रहणे नानर्थकस्य ग्रहणं भवति इति, व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम्, तेनान्येषामौणादिकानां20 न भवति-पितरौ, भ्रातरौ, मातरौ, जामातरौ। केचित् तु प्रस्तोतृ-उन्नतृउद्गातृ प्रतिहर्तृ-प्रति-स्थातृशब्दानामौणादिकानामप्यारं मन्यन्ते प्रस्तोतारम्, प्रस्तोतारौ, प्रस्तोतारौ, प्रस्तोतारः, इत्यादि ।। ३८ ।।
न्या० स०-तृ-स्वस्त्रित्यादि-सूत्रत्वाद् “अनाम्स्वरे०" [१. ४. ६४.] इति न, सूत्रे ऋकारोपादानाद् वा, कथमिति चेत् ? प्रशास्तृणाम् ऋः प्रशास्तृ.: तस्य ।25 अतिकर्तारमिति-अत्र तत्पुरुषो न बहुव्रीहिः कच्प्रसङ्गात्, तेन च व्यवधानेन प्राप्त्यभावात् । नन्वत्र सूत्रे शौ निमित्ते किं न दर्शितम् ? "स्वराच्छौ" [ १. ४. ६५. ] इति