________________
१०८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ४. सू० ३६-३७.]
परमेः, परमेः, नयतीति विच्-नेः, नेः; एवम्-लोः, लोः। वचनभेदो यथा- : संख्यनिवृत्त्यर्थः ।। ३५ ॥
न्या० स०–एदोद्भवामित्यादि । एदोद्भयामिति-अत्र तकारः स्वरूपग्रहणार्थः, तेन लाक्षणिकयोरप्येदोतोः परिग्रहः-परमेरिति-"आतो नेन्द्रवरुणस्य" [७. ४. २६.] इति ज्ञापकात् पूर्व पूर्वोत्तरपदयोः कार्यम्, ततः सन्धिकार्यम्, अतः परमैरिति प्राप्नोति, 5 नैवम्-*ज्ञापकज्ञापिता विधयो ह्यनित्याः इति ।। ३५ ।।
खि-ति-रखी-तीय उर ॥ १. ४. ३६ ॥
खि-ति-खी-तीसम्बन्धिन इवर्णस्थानाद् यकारात् परयोर्डसि-ङसोः स्थाने उर् आदेशो भवति । खि-सख्युः, सख्युः, ति-पत्युः, पत्युः, खी ती-सह खेन वर्तते सखः, सखं सखायं वेच्छतीति क्यनि क्विपि सखीः, पततीति पतः,10 पत पतिं वेच्छतीति क्यनि क्विपि पती:, सख्युः, पत्युः, तथा सुखमिच्छति, सातमिच्छति क्यनि क्विपि सुख्युः, सात्युः; लूनं पूनं चेच्छतः-लून्युः, पून्युः, "क्तादेशोऽषि" [२. १. ६१.] इति नत्वस्यासत्त्वात् तीरूपत्वम् । य इति किम् ? यत्र यत्वादेशस्तत्र यथा स्यात्, इह मा भूत्-अतिसखेः, अतिपतेः । खि ति-खी-तीति किम् ? मुख्यमपत्यं चाचष्टे णिच् विच-मुख्यः, अपत्यः15 आगतं स्वं वा । अदिति इत्येव ? सख्याः , पत्याः ।। ३६ ।।
न्या० स०-खि-तीत्यादि । “षणूयी दाने" सनोति दत्ते परस्परं भोजनादिकमिति सखा, “सनेः डखिः" [उणा० ६२५.] पाति अपायादिति “पाते;" [ उणा० ६५६. ] इति डतिः। सात्युरिति-सायते स्म दीयते स्म पुण्यैरिति सातम्, “साति: सौत्रः सुखे" सातति वा । मुख्य इति-अत्र विचि कृते “य्वोः प्वय०" [४. ४. १२१. ] इति यस्य लुग20 न, यतः "स्वरस्य परे" [७.४.११०.] इति णिलोपः स्थानी, न च “न सन्धिः०" [१. ३. ५२.] इत्यस्यावकाशः, नत्रा निर्दिष्टस्यानित्यत्वात्र, भवतु वाऽवकाशस्तदेदमुत्तरम्-“य्वोः प्वय" [ ४. ४. १२१. ] इति सूत्रे लुक् इति संज्ञा, *संज्ञापूर्वको विधिरनित्यः * यद्वा "क्वौ" [४. ४. ११६.] इति सूत्रकरणात्-क्विप्-विचोर्व्यञ्जनकार्यमनित्यम्, न च वाच्यं कथं विच्यपि व्यञ्जनकार्यानित्यता, यतोऽप्रयोगिनामुपलक्षण:25 क्विप् ।। ३६ ॥
तो हर ॥ १. ४. ३७ ॥ ऋकारात् परयोर्डसि-ङसोः स्थाने 'डुर्' इत्ययमादेशो भवति । पितुः,