________________
१०६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ३२-३३.]
भवति, अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा। श्रीणाम्, श्रियाम् ; भ्रणाम्, । भ्र वाम्; अतिश्रीणाम्, अतिश्रियाम्, पृथुश्रीणाम्, पृथुश्रियाम्, अतिभ्रणाम्, अतिभ्र वाम्, पृथुभ्र णाम्, पृथुभ्र वां स्त्रीणां पुरुषाणां वा; शोभना धीरेषां सुधीनाम्, सुधियाम् । इयुव इत्येव ? प्रधीनाम्, वर्षाभूणाम् । स्त्रीदूत इत्येव ? यवक्रियाम्, कटपुवाम्, सुष्ठु ध्यायन्तोति सुधियाम् । अस्त्रिया 5 इत्येव ? स्त्रीणाम्, परमस्त्रीणाम्, उत्तरेण नित्यमेव; नपुंसकेऽपि ह्रस्वत्वेन भाव्यमित्युत्तरेण नित्यमेव-अतिश्रीणाम्, अतिभ्रूणां कुलानामिति ।। ३१ ।।
न्या० स०–आमो नाम् वेति । षष्ठीबहुवचनस्येति-अत्र ङिस्थानिकस्य सानुबन्धत्वादपरस्य चासम्भवात् स्याद्यधिकाराच्च षष्ठीबहुवचनस्यैवामो ग्रहणम् ।। ३१ ॥ हस्वापश्च ॥ १. ४. ३२॥
10 ह्रस्वादाबन्तात् स्त्रीदूदन्ताच्च शब्दात् परस्यामः स्थाने 'नाम्' इत्ययमादेशो भवति । ह्रस्व-श्रमणानाम्, संयतानाम्, वनानाम्, धनानाम्, मुनीनाम्, साधूनाम्, बुद्धीनाम्, धेनूनाम्, पितृ णाम्, मातृ णाम् ; प्राप्खट्वानाम्, बहुराजानाम् ; स्त्रीदूतः-नदीनाम्, वधूनाम्, स्त्रीणाम्, लक्ष्मीनाम् । स्त्रीशब्दवजितयोरियुवादेशसम्बन्धिनोः स्त्रीदूतोः पूर्वेण विकल्प एव-15 श्रीणाम्, श्रियाम्; भ्रूणाम्, भ्र वाम् । ह्रस्वापश्चेति किम् ? सोमपाम्, सेनान्याम् ॥ ३२ ॥ .
न्या० स०-ह्रस्वेत्यादि । पूर्वेण विकल्प एवेति-इयुवस्थानित्वेन विशेषविहितत्वादिति शेषः ।। ३२ ॥
संख्यानां ष्र्णाम् ॥ १. ४. ३३ ॥
20
रेफ-षकार-नकारान्तानां संख्यावाचिनां शब्दानां सम्बन्धिन प्रामः स्थाने 'नाम्' इत्ययमादेशो भवति । चतुर्णा [ए] म्, षण्णाम्, पञ्चानाम्, सप्तानाम्, परमचतुर्णाम्, परमषण्णाम्, परमपञ्चानाम् । तत्सम्बन्धिविज्ञानादिह न भवति-प्रियचतुराम, प्रियषषाम, प्रियपञ्चाम् । सङ्ख्यानामिति किम् ? गिराम्, विपुषाम्, यतिनाम् । ष्र्णामिति किम् ? त्रिंशताम्,25