________________
दत्तक या गोद
[चौथा प्रकरण
[चौथा
भ्युष गमात्क्षेत्रं बीजार्थयत्प्रदीयते । तस्येह भगिनौ दृष्टौ बीजीक्षेत्रक एवचेति । क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयो रुभयो रपि भवत्विति संविदङ्गी करणाद्यत्क्षेत्रं क्षेत्रस्वामिना । बीजावपनार्थं बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्पन्नस्यापत्यस्य बीजि क्षेत्रिणी भागिनौ स्वामिनी दृष्टौ महर्षिभिः। तथा मनुः-फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा । प्रत्यक्षं क्षेत्रिणामार्थे, बीजाद्योनिलीयसी । फलं त्वनभिसंधायेति-अत्रोत्पन्नमपत्यमावयो रुभया रस्त्वित्येवमनभिसंधाय परक्षेत्रे यदपत्यमुत्पाद्यते तदपत्यं क्षेत्रिण एव यतोवीजाद्योनिर्बलीयसीति । गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वाग्दत्ता विषय एव । इतरस्य नियोगस्य मनुना निषिद्धत्वात् । मनुः-देवरादा सपिण्डादा स्त्रिया सम्यङ् नियुक्तया। प्रजेप्सिताधिगंतव्या सन्तानस्य परिक्षये॥ विधवायां नियुक्तस्तु घृताक्तोवाग्यतेीिनीश । एकमुत्पादयेपुत्रंन द्वितीयं कथञ्चन ॥ इत्येवं नियोगमुपन्यस्य मनुः स्वय. मेव निषेधति । नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः॥अन्यस्मिन्हि नियुञ्जाना धर्म हन्युः सनातनम् । नोदाहिकेषु मन्त्रेषु नियोगः कीर्त्यते कचित् ॥ न विवाह विधावुक्तं विधवावेदनं पुनः।अयं दिहि विद्वद्भिः पशुधर्मों विगर्हितः ॥ मनुष्याणामापिप्रोक्तो बेनेराज्यं प्रशासति । समहीमखिलां भुञ्जन राजर्षि प्रवरः पुरा ॥ वर्णानां संकरं चक्रे, कामोपहतचेतनः । ततः प्रभृतियोमोहात् प्रमीतपतिका स्त्रियम् ॥ नियोजयत्यपत्यार्थे गर्हन्ते तं हि साधवः इति ।