________________
दफा २८२ ]
द्वामुष्यायन दत्तक
३०३
नचविहितप्रतिषिद्धत्वाद्विकल्प इति मन्तव्यम् । नियोक्तृणां निन्दाश्रवणात् । स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात् । संयमस्य प्रशस्तत्वाच्च । यथाह मनुरेव - कामं तु क्षेपयद्देहं पुष्प मूल फलैः शुभैः । नतुनामापि गृहीयात्पत्त्यौ प्रेते परस्य त्विति । जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिद्धयते मनुः । आसीता मरणात् चान्ता नियता ब्रह्मचारिणीम् । योधर्म एक पत्नीनां कांतिसमनुत्तमम् । अनेकानि सहस्त्राणि कौमार ब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुल सन्ततिम् ॥ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्य व्यवस्थिता 1 स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः || अपत्यलोभाद्यातुस्त्री भर्तारमति वर्तते । स्येहनिन्दामवाप्नोति परलोकाच्च हीयते । इति पुत्रार्थमपि पुरुषान्तराश्रयणं निषेधति । तस्माद्विहित प्रतिषिद्धत्वादिकल्प इति न युक्तम् । एवं विवाह संस्कृतानियोगे प्रतिषिद्धे कस्ता यों नियोग इत्याह-यस्यामृयेत कन्याया वाचा सत्ये कृते पतिः । तामनेन विधानेन निजो विन्देत देवरः ॥ यथाविध्यभिगम्यैनां शुक्रवस्त्रां शुचिव्रताम् । मिथोभजेताप्रसवा त्सकृत्सकृदृताव्रतौ इति । यस्मै वाग्दत्ता कन्या सप्रतिग्रहमन्तरेणैव तस्याः पतिरित्यस्मादेव वचनादवगम्यते तस्मिन्प्रेते देवरस्तस्य जेष्ठः कनिष्ठो वा निजः सोदरोविन्देत परिणयेत् । यथाविधि यथाशास्त्रमधिगम्य परिणीय नेन विधानेन घृताभ्यङ्ग वाङ् नियमादिना शुक्रवस्त्रां शुचिव्रतां मनोवाक्काय संयताम् । मिथो रहस्या गर्भग्रहणात् प्रत्यूत्वेकवारं