________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी न च तथाऽपि कपिसंयोगसामान्याभाववति बृक्षे निरवच्छिन्नवृत्तिकत्वविशिष्टस्य वदीययावद्विशेषाभावस्यासत्त्वादुपाधेः साध्याव्यापकत्वमिति वाच्यम् ; जात्यवच्छिन्नाभावस्यैवोक्तव्याप्ती साध्यविधया प्रवेशात्, कपिसंयोगाभावस्य चातथात्वेन तं प्रति तदीययावद्विशेषाभावस्यो क्तरूपेणाव्यापकत्वेऽपि क्षत्यभावात् ।।
विरतिः धिकरणोभयावृत्तितत्तत्कपिसंयोगत्वादिरूपधर्मावच्छिन्नप्रतियोगिताकयावदभावस्यासत्त्वात्, वृक्षादौ किञ्चिदवच्छिन्नस्यैव तत्तत्संयोगाभावस्य स्वीकरणीयत्वादिति कपिसंयोगाभावरूपसाध्यव्यापकत्वं नोक्तनिरवच्छिन्नवृत्तिकत्वविशिष्टस्य कपिसंयो. गीययावद्विशेषाभाववत्त्वस्य सम्भवतीत्याशङ्कते-न चेति । जात्यवच्छिन्नाभावस्य जातिमात्रावच्छिन्नाभावस्य, उक्तव्याप्तौ यो यदीये'त्यादिसामान्यव्याप्ती, साध्यविधया = साध्यत्वेन रूपेण, प्रवेशादिति । यो यदीयेत्यस्य-'यो यजातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकयावदभाववान् स तजातिमात्रावच्छिबाभाववानि'त्यर्थकरणादित्यर्थः । कपिसंयोगाभावस्य = कपिप्रतियोगिकत्वसंयोगत्व-धर्मद्वयावच्छिन्नप्रतियोगिताकाभावस्य, अतथात्वेन = जातिमात्रावच्छिनाभावत्वाभावेन, तं प्रति = कपिसंयोगाभावं प्रति, तदीययावद्विशेषाभावस्य = कपिसंयोगीययावद्विशेषाभावस्य, उक्तरूपेण = निरवच्छिन्नवृत्तिकत्त्वविशिष्टकपिसंयोगीययावद्विशेषाभावत्वेन रूपेण ।
क्षत्यभावादिति । तथा च 'यो यजातिमात्रावच्छिन्नाभाववान् भवति स निरवच्छिन्नवृत्तिकत्वविशिष्टतजाति समानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकयावदभाववान् भवती'त्यस्यैव साध्योपाध्योापकत्वस्यादरणीयतया कपिसंयो। गाभावस्य च कपिप्रतियोगिकत्व-संयोगत्व-धर्मद्वयावच्छिन्नप्रतियोगिताकतया जातिमात्रावच्छिन्नाभावत्वाभावात् , 'यजाति' पदेन कपिसंयोगत्वस्य धर्तमशक्य. खात; संयोगत्वस्यैव धर्तव्यतया तादृशसंयोगत्वावच्छिन्नाभाववति गुणे निर. वच्छिन्नवृत्तिकत्वविशिष्टस्य तत्तत्संयोगयावद्विशेषाभाववत्त्वस्य सत्त्वेन निरुक्तोपाधेः साध्यव्यापकत्वमक्षतमिति भावः।
ननु तथापि शब्दजनकतावच्छेदकीभूताभिघातत्वरूपजातिमात्रावच्छिन्नाभावस्याभिघातसामान्याभावस्य वृक्ष उभयवादिसिद्धतया,-तत्र च निरवच्छिन्नवृत्तिकत्वविशिष्टस्याभिघातीययावद्विशेषाभाववत्त्वस्यासत्त्वात्,-"यत्र यजातिमात्रावच्छिन्ना. भावस्तत्र निरवच्छिन्नवृत्तिकत्वविशिष्टतजातिसमानाधिकरणोभयावृत्तिधर्मावच्छिन्न प्रतियोगिताकयावदभाव" इतिव्याप्तौ व्यभिचारात्कुतः साध्यव्यापकत्वमुपाधेः