________________
५६
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः संयोगयावद्विशेषाभावा 'एव मानं । यत्तदर्थयोरननुगमात् ,
जागदीशी ®संयोगयावद्विशेषाभावा इति । [मानं = मानतावच्छेदकम् , आचा
य॑मतेनेदं वा] । ___ न च सर्वावयवावच्छेदेन वृक्षादौर गगनादेरेक एव संयोगो लाघवादिति वस्यैवाभावविरहात् संयोगयावद्विशेषाभाववत्त्वं पक्षे स्वरूपासिद्धमिति वाच्यम् ; अतिप्रसङ्गभङ्गाय शाखादितत्तदवयवावच्छिन्नवृत्तिकसंयोगं प्रति तत्तदवयवत्वेन हेतुत्वस्यावश्यकवया वृक्षे व्याप्यवृत्तिगगनसंयोगस्यासम्भवादिति भावः ।।
विवृतिः ननु गगनसंयोगव्यक्तित्वस्याप्युभयावृत्तितया तदवच्छिन्नाभावस्य यावदन्तगंतस्य वृक्षेऽसत्वान्निरुक्तहेतोः पक्षे स्वरूपासिद्धत्वमेवेत्याशङ्कते-न चेति । सर्वावयवावच्छेदेन = तत्तत्सकलशाखाद्यवच्छेदेन । 'एक एव गगनसंयोग' इत्यनेन गगनसंयोगव्यक्तित्वस्योभयावृत्तित्वमाविष्कृतम् । लाघवादितीति । अनन्तसंयोगस्वीकारे मानाभावादिति भावः। समाधत्ते-अतिप्रसङ्गेत्यादि । अतिप्रसङ्गभङ्गाय = तदवयवावच्छिन्नासंयोगस्यापरावयव उत्पत्तिरूपातिप्रसङ्गवारणाय, शाखादितत्तदिति। तथा च समवायेन तत्तदवयवावच्छिन्नवृत्तिकसंयोगं प्रति तादात्म्येन तत्तदवयवत्वेन हेतुत्वं वाच्यं, तादृशस्य तदवयवस्य तादात्म्येनावयवान्तरेऽसत्त्वाला तदवयवावच्छिन्नसंयोगस्यावयवान्तर उत्पत्तिरिति भावः । न च तदवयवावच्छिन्नसंयोगस्य समवायेन कपिचरणे सत्त्वात्तत्र तादात्म्येन तदवयवविरहादुक्तकार्यकारणभावे व्यभिचार इति वाच्यम् । अनुयोगितासम्बन्धेन तदवयवावच्छिन्नवृत्तिकसंयोगं प्रत्येव तादात्म्येन तदवयवस्य हेतुताया वक्तव्यत्वादनुयोगितासम्बन्धेन तादृशसंयोगस्य च कपिचरणेऽसत्त्वेन व्यभिचाराभावादित्यवधेयम् । व्याप्यवृत्तीति । तथा चोक्तकार्यकारणभावानुरोधेन निरवच्छिन्नस्य कस्यापि संयोगस्य वृक्षादावसत्त्वान्न गगनसंयोगाभावमादाय स्वरूपासिद्धिरिति भावः। निरुक्तव्याप्तेरप्रामाणिकत्वे हेतुमाह-दीधितो, यत्तदर्थयोरननुगमादिति ।
दीपिका तत्वस्यैव संयोगत्वन्यूनवृत्तितया तदवच्छिन्नाभावस्य तत्तदवयवावच्छेदेन वृक्षे सत्त्वात्स्वरूपासिद्धयसम्मवादतो 'वृक्षान्यासमवेतत्व'पर्यन्तानुसरणम् । १ यावत्संयोगाभावा'इति काशी काञ्ची-मुद्रितपाठः । २ 'वृक्षे' इति काशीमुद्रितपाठः।