________________
विवृति-दीपिकालङ्कता।
जागदीशी दित्यादौ तादृशहेत्वधिकरणं द्रव्यमेव न तु गुणादि, विशिष्टसत्त्वात्वे तनिष्ठाधिकरणतानवच्छेदकत्वस्य, (सामान्यतः) अधिकरणतावच्छेदकत्वस्य च द्वयोः सत्त्वादिति ध्येयम् ।
विवृतिः दित्यत्र वैशिष्ट्य-सत्तात्वरूपहेतुतावच्छेदके हेतुतावच्छेदकीभूतसत्तात्वाश्रयीभूतायाः सत्ताया यदधिकरणं गुणस्तन्निष्ठाधिकरणतानिरूपकतानवच्छेदकत्वस्य सवेन, किञ्चित्पदेन द्रव्यमादाय तन्निष्ठाधिकरणतानिरूपकतावच्छेदकत्वस्य च सत्त्वेनोभयोः सत्वान्न गुणस्य पारिभाषिकं विशिष्टसत्तारूपहेतोरधिकरणत्वं सम्भचति, अपि तु द्रव्यस्यैव, वैशिष्टय-सत्तात्वरूपहेतुतावच्छेदके तादृशसत्तात्वाश्रय. सत्ताधिकरणद्रव्यनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वस्यासत्त्वात्तादृशो - भयाभावस्याक्षतत्वात् , एवञ्च तादृशहेत्वधिकरणीभूते द्रव्ये साध्यीभूतस्य द्रव्यत्वस्थाभावविरहान्नाव्याप्तिरिति भावः । स्वाश्रयाधिकरणत्वपर्यन्तानिवेशे-प्रमेयवान् गगनादित्यत्र विरुद्धेऽतिव्याप्तिः, वह्निमान्धूमादित्यत्र जलादेहेत्त्वधिकरणत्वापयाऽव्याप्तिप्रसङ्गश्चातस्तन्निवेशनम् ।
अत्र स्वाश्रयनिष्ठनिरूपकत्वमवश्यं हेतावच्छेदकसम्बन्धावच्छिन्नं वक्तव्यमन्यथा वह्निमान्धूमादित्यत्र जलादेरपि हेत्वधिकरणतापत्तिः, कालिकसम्बन्धावच्छिन्नधूमत्वाश्रयधूमनिष्ठनिरूपकतानिरूपितजलनिष्ठाधिकरणतानिरूपकतानवच्छेदकत्वस्य धूमत्वरूपहेतुतावच्छेदके सत्त्वेपि, सामान्यतोऽधिकरणतानिरूपकतावच्छेदकत्वस्य तत्रासत्त्वादुभयाभावस्याक्षततया जलस्यापि स्वाश्रयाधिकरणीभूतयत्पदेन धर्तुं शक्यत्वात् ।
एवं यन्निष्ठाधिकरणतानिरूपितनिरूपकत्वमपि हेतुतावच्छेदकसम्बन्धेन विवक्षणीयमन्यथा द्रव्यं विशिष्टसत्त्वादित्यत्र ज्ञानात्मकगुणस्य हेत्वधिकरणत्वापत्याऽव्याप्तिप्रसङ्गात् , वैशिष्टय-सत्तात्वरूपहेतुतावच्छेदके सामान्यतोऽधिकरणीभूतद्रव्यनिष्ठाधिकरणतानिरूपकतावच्छेदकत्वसत्त्वेपि स्वाश्रयाधिकरणीभूतयत्पदेन ज्ञानमुपादाय तन्निष्टाधिकरणतानिरूपितविषयित्वसम्बन्धावच्छिन्ननिरूपकतानवच्छेदकत्वस्यासत्त्वेनोभयाभावस्याक्षतत्वात् । ' एवं 'सामान्यतोऽधिकरणतानिरूपितनिरूपकते'त्यत्र निरूपकत्वमपि हेतुतावच्छेदकसम्बन्धावच्छिन्नं वाच्यमन्यथा वह्निमान्धूमादित्यत्र पर्वतादेहेत्वधिकरणत्वं न स्यात् , धूमत्वे पर्वतादिनिष्ठाधिकरणतानिरूपकतानवच्छेदकत्वस्य, ज्ञाननिष्ठविषयित्वसम्बन्धावच्छिन्ननिरूपकतावच्छेदकत्वस्य च द्वयोः सत्त्वेनोभयाभावविरहादिति सङ्क्षपः।