________________
: काली-शङ्करी-विवेचना ।
ર૭૭
हेतुमन्निष्ठसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभावीयतत्तत्प्रतियोगितावच्छेदकसम्बन्धभिन्नत्वं साध्यतावच्छेदकसम्बन्धे निवेश्य, लक्षणस्य परिष्कारः कर्त शक्यत इत्याशङ्कावता जगदीशेन “घटाद्यभावोऽपि प्रतियोगिन्यधिकरण" इत्यादिग्रन्थस्योक्तत्वादिति ध्येयम् ॥४९॥ ___ “अथ हेतुसमानाधिकरणाभावीयप्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिव्यधिकरणहेतुमन्निष्टाभावीयसाध्यतावच्छेदकावच्छिन्नप्रतियोगितासामान्ये,-साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाभाव' इत्यादिक्रमेण निर्वचने,–'घटवृत्तित्वविशिष्टद्रव्यत्ववान् घटत्वादिस्यादौ तादात्म्येन साध्यभेदमादाय दोषवारणसम्भवेऽपि, 'दधित्वविशिष्टप्रमेयवान् स्थूलदधित्वा'दित्यादावव्याप्तिः, केनापि सम्बन्धेन हेतुमतस्तत्र साध्यतावच्छेदकावच्छिन्नानधिकरणत्वासम्भवादिति” जगदीश । [ २२५ जा०]
अत्र च दधित्ववैशिष्ट्य सामानाधिकरण्यसम्बन्धेन, तच्च समवायेन दधित्वाधिकरणे समवायेन वृत्तित्वं, ताशप्रमेयं त्रसरेण्वादिस्वरूपं, दधिवादिकं च न तद्वयणुकं, परमाणो दधित्वजात्यसत्वेन तत्र सामानाधिकरण्यसम्बन्धेन वैशिष्ट्यविरहात् न तदभावो हेत्वधिकरणे समवायेन, न वा तादात्म्येन प्रतियोगिव्यधिकरण इत्यव्याप्तिः, साध्यत्वं च तादात्म्येन बोध्यम्, समवायेन साध्यत्वे 'स्थूल'. पदस्य व्यभिचारावारकत्वेन व्यर्थत्वात् , तादात्म्येन साध्यतायां तु 'स्थूल'पदानुक्तौ द्वयणुके व्यभिचारापत्तेः, तत्र तादृशसाध्यस्य त्रसरेण्वादेः तादात्म्येनाभावात् ।
न च समवायसम्बन्धेन साध्यत्वे किं 'स्थूल'पदेनेति वाच्यम्, तथा सत्यव्याप्त्यसम्भवेन प्रकृतानुपयोगात् द्वयणुकरूपे हेत्वधिकरणे साध्यस्य तादात्म्यसम्बन्धेनाभावसत्त्वात् ।।
अत्रेयमाशङ्का,-विषयितासम्बन्धमादाय विशिष्टप्रमेयत्वस्य हेत्वधिकरणे - सत्वेन प्रतियोगितावच्छेदकतत्तासम्बन्धान्यत्वस्य साध्यतावच्छेदकसम्बन्धे सत्त्वात् तत्राव्याप्तिविरहादिति चेत् , न, विषयित्वादेः संसर्गस्वे मानाभावात् ।
के चित्तु ज्ञानत्वज्ञानान्यतरस्य समवायेन साध्यतायां योगिज्ञानत्वस्य समवायेन हेतुतायामव्याप्तिः, तत्र केनापि सम्बन्धेनानधिकरणत्वविरहात् । न च तत्र महाकालानुयोगिककालिकसम्बन्धेनानधिकरणत्वान्नाव्याप्तिरिति वाच्यम्, विशेषरूपेण संसर्गतानभ्युपगमादिति, तन्न, दिक्कृतविशेषणतासम्बन्धेन साध्यानधिकरणत्वस्य ज्ञानादौ सत्त्वादिति ध्येयम् ॥५०॥ ___कालो घटवान् महाकालत्वादित्यादावव्याप्तिवारणाय 'साध्यतावच्छेदकसम्बन्धसामान्ये, यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वहेत्वधिकरणयस्किञ्चिद्व्यत्त्यनुयोगिकत्वोभयाभावस्तादृशप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके विवक्षितम्, उभयाभावमपहाय विशिष्टाभावनिवेशे,-'कालो घटवान् महा