________________
२७४
जागदीशो-सिद्धान्त-लक्षणम् । स्वप्रतियोगितावच्छेदकद्रव्यभिन्नानुयोगिकस्वरूपसम्बन्धेन तादृशप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणत्वस्य हेत्वधिकरणे सत्त्वात् द्रव्यत्वस्वरूपस्य साध्या. भावस्य लक्षणघटकत्वात् , कथं 'द्रव्यस्वाभाववान्सत्त्वा'दित्यादावतिव्याप्तिरिति वाच्यं, यत्राऽऽत्मत्वप्रकारकप्रमाविशेष्यत्वस्य तदात्मानुयोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताको योऽभावः, तस्य कालिकसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य दैशिकविशेषणतया साध्यतायामात्मत्वं हेतुस्तत्र सद्धेतो, हेत्वधिकरणे आत्मनि वर्त्तमानो यस्तदात्मानुयोगिकविशेषणताविशेषसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्व. प्रकारकप्रमाविशेष्यत्वाभावस्तत्प्रतियोगित्वं तदात्मानुयोगिकविशेषणताविशेषसम्बन्धावच्छिन्नं, तेन तदभावप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणहेत्वधिकरणत्तिर्यस्तदनुयोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वप्रकारकप्रमावि . शेष्यत्वाभावस्तदीयसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रकृतसाध्यनिष्ठा या प्रतियोगिता, तदवच्छेदकत्वस्य साध्यतावच्छेदके सत्त्वादव्याप्तिः, तद्वारणार्थ साध्याभावनिरूपितत्वसाध्यतावच्छेदकसंसर्गतावच्छेदकेतरावच्छिन्नसंसर्गतानिरूपितत्वोभयाभाववत्प्रतियोगित्वस्य 'स्वप्रतियोगित्व'पदेन विवक्षितत्वात् ।
तथा च तदात्मानुयोगिकविशेषणताविशेषसम्बन्धावच्छिन्नात्मत्वप्रकारकप्रमा. विशेष्यत्वनिष्ठप्रतियोगितायाः साध्यतावच्छेदकसंसर्गतावच्छेदकेतरतदारमानुयोगिकत्वावच्छिन्नसंसर्गतानिरूपितत्व-साध्याभावनिरूपितत्वोभयसत्त्वेन लक्षणाघटकत्वं, किन्तु घटाद्यभावीयप्रतियोगितायामेव तथात्वं, तस्याः साध्यतावच्छेदकेतरसंयोग खावच्छिन्नसंसर्गतानिरूपितत्वेऽपि साध्याभावनिरूपितत्वाभावसत्त्वेन तादृशोभयाभावसत्त्वात् , तथा च 'द्रव्यत्वाभाववान् सत्त्वा'दित्यादौ द्रव्यभिन्नानुयोगिकस्वरूपसम्बन्धेन द्रव्यत्वाभावस्याभावो न लक्षणघटकः, द्रव्यभिन्नानुयोगिकस्वरूपसम्बन्धावच्छिन्ना या साध्याभावनिरूपिता प्रतियोगिता, तत्र साध्यतावच्छेदकसं. सर्गतावच्छेदकेतरद्रव्यभिन्नानुयोगिकत्वावच्छिन्नसंसर्गत्वनिरूपितत्व-साध्याभावनि. रूपितत्वोभयसत्वात् , किन्त्वभावान्तरमादायातिव्याप्तिरिति सङ्गच्छते इत्याहुः ॥४२॥
अत्र कल्पे 'घटत्ववान् तक्रियात्वा'दित्यत्र कालिकसम्बन्धेन साध्यत्वे, तक्रियात्वस्य हेतुतायामव्याप्तिस्तत्र 'स्वप्रतियोगित्वं यादृशसम्बन्धावच्छिन्नं, तादृशसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणहेत्वधिकरणवृत्त्य भावीयप्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्व'निवेशात् तादृशसम्बन्धेन प्रतियोगिव्यधिकरणाभावाप्रसिद्धः।
न चैतरिक्रयासमानकालीनकालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटाद्यभावमादाय नाव्याप्तिः, विभिन्नकालीनवस्तुनः कालिकसम्बन्धेनाधाराधेयभावाकल्पनादिति वाच्यम्, एतत्कालासमानकालीनघटाद्यभावस्य पूर्वक्षणवृत्तित्वविशिष्टघटा