________________
काली- शङ्करी - विवेचना ।
૬૭
सङ्गतिस्तत्रैव तस्य प्रयोजनसत्त्वेन सन्दर्भविरोधः स्यात्, तथापि सामान्यव्याप्तौ प्रसिद्धस्थले व्यापकसामानाधिकरण्यरूपव्या प्तेरनुमानाङ्गत्वमप्रसिद्धस्थले वृक्षादौ संयोगाभावादिसाधने साध्यसाधनसहचारमात्रमिति मिश्रादिभिरप्युक्तमित्यतो न सन्दर्भविरोधः स्यादित्यास्तां विस्तरः ॥ ३३ ॥
“शब्दो नित्यः, सामान्यवत्त्वे सति विशेषगुणान्तरासमानाधिकरणबहिरिन्द्रियग्राह्यत्वादि" त्यादिहेतौ, नित्यत्वे साध्ये सामान्यवत्त्व विशेषणस्य शब्दध्वंसे व्यभिचारवारणाय सार्थक्यम्, विशेषगुणान्तरासमानाधिकरणत्व विशेषणस्य रूपादौ व्यभिचारवारणाय सार्थक्यं, लौकिकप्रत्यक्षविषयतार्थकस्य बहिरिन्द्रियग्राह्यत्व दलस्य मनः क्रियादौ व्यभिचारवारणाय सार्थक्यम्, एतन्मते ध्वन्यात्मकशब्दे व्यभिचारवारणाय पुनर्हेतौ 'ध्वनिभिन्नत्वं' विशेषणं देयम्, अनित्यत्वे स सामान्यवत्त्व विशेषणस्य शब्दत्वे व्यभिचारवारणाय सार्थक्यम्, गगनादौ व्यभि चारवारणाय बहिरिन्द्रियग्राह्यत्व दलसार्थक्यं,
न च ग्राह्यान्यशब्दे अंशतः स्वरूपासिद्धिरिति वाच्यं, सामान्यवत्त्वे सति बहिरिन्द्रयग्राह्यत्वादिति दलद्वयस्य बहिरिन्द्रियग्राह्यतावच्छेदकजातिमत्त्वरूपार्थकत्वेन वारणात् । पुनर्गगनादौ द्रव्यत्वजातिमादाय व्यभिचारवारणाय तादृशजाती 'द्वीन्द्रियग्राह्यतानवच्छेदकत्व' विशेषणं देयम् । एवं च जलीयपरमाणुरूपे व्यभि चारवारणाय 'विशेषगुणान्तरा सामानाधिकरण्य' दलसार्थक्यम्, आत्मन्यात्मत्वजातिमादाय व्यभिचारवारणाय 'बहिः' पदम् । अनित्यत्वपक्षे बहिरिन्द्रियग्राह्यत्वस्य लौकिकप्रत्यक्षविषयत्वरूपं नार्थः ।
अथाऽन्तरपदस्य स्त्ररूपासिद्धिवारकतया सार्थकत्वमुक्तं, तन्न सङ्गच्छते, हेत्वप्रसिद्धिवारकतयैव सार्थक्यादिति चिन्तनीयम् ॥ ३४ ॥
“ यद्वा यो यदीयानां यद्धर्मावच्छिन्नप्रतियोगित्वानां यावतां विशेषाभाववान्' प्रत्येकावच्छिन्नाभाववानित्यर्थः तथा च संयोगत्वावच्छिन्नप्रतियोगिताव्यक्तीनां प्रत्येकावच्छिन्नाभावकूटवत्त्वस्य पक्षे सत्वान्नासिद्धिर्न वा व्यर्थविशेषणत्वमिति जगदीशः । [ जा० ५३ पृ० ]
न चात्रापि प्रत्येकपदस्य स्वरूपासिद्धिवारकतया तद्दोषतादवस्थ्यमिति वाच्यम्, 'यद्धर्मावच्छिन्नप्रतियोगित्वानां प्रत्येकावच्छिन्नाभाववा' नित्यनेन तादृशप्रतियोगितानिष्ठावच्छेदकताका भाववत्त्वस्यैव विवक्षितत्वात् ।
न च संयोगत्वावच्छिन्नप्रतियोगी नास्तीति प्रतीतिसिद्धाभावमादाय पक्षे स्वरूपासिद्धिरिति वाच्यम्, ताडशाभावप्रतियोगितावच्छेदकत्वस्य लाघवेन संयोगव एव कल्पनीयत्वादिति ।
न च तत्तत्प्रतियोगित्वावच्छिन्नाभावप्रतियोगितावच्छेदकं तत्तत्संयोगादिनिष्ठ
"