________________
काली- शङ्करी- विवेचना ।
वह्नयादिहेतावतिव्याप्तिः । धूमत्वनिष्ठकालिकसम्बन्धावच्छिन्ना या साध्यतावच्छेदकता तदनवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्यैतदुभयसम्बन्धेन तद्विशिष्टप्रतियोगितावच्छेदकतानिरूपितत्वेन साध्याभावस्य लक्षणाघटकत्वात् ।
स्वनिष्ठसाध्यतावच्छेदकतानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वनिष्ठत्वैतदुभयसम्बन्धेन साध्यतावच्छेदकविशिष्टावच्छेदकत्वानिरूपकत्वस्य निवेशेऽपि समवायेन 'ज्ञानत्वत्वावच्छिन्नस्य विषयितया स्वरूपतो ज्ञानत्वस्य यत्र साध्यतावच्छेदकत्वं, ज्ञानमित्य [कारक ज्ञानत्वं च हेतुस्तत्र साधनसमानाधिकरणस्य साध्यतावच्छेदकी. भूततादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकस्य विषयितया ज्ञानत्वत्वविशिष्टवज्ञानभेदस्य निरुक्तोभयसम्बन्धेन साध्यतावच्छेदकविशिष्टावच्छेदकत्वानिरूपकत्वस्य प्रतियोगितायां सत्त्वात् तत्र हेतावव्याप्तिः ।
न च स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसमनियतत्वोभयसम्बन्धेन साध्यतावच्छेदकतावैशिष्ठ्यं निवेश्यमतो न कोऽपि दोष इति वाच्यम् । कालिकेन धूमत्वविशिष्टस्य, समवायेन धूमध्वविशिष्टस्य, कालिकेन रूपत्वविशिष्टस्य, समवायेन रूपत्वविशिष्टस्य वा यत्र साध्यता, तत्र धूमत्वविशिष्टधूमवान् वह्नेः, रूपत्वव द्वपवान् ज्ञानत्वादित्यत्रातिव्याप्तिरिति ।
२४६
अत्र केचित् - स्वानवच्छेदकसम्बन्धावच्छिन्नत्व, स्वसामानाधिकरण्य, स्वसाजात्यैतत्रितयसम्बन्धेन साध्यतावच्छेदकताविशिष्टप्रतियोगिता बच्छेदकस्वानिरूपकत्वविशेषणेन न दोषः । स्वसाजात्यञ्च निरवच्छिन्नत्व, किञ्चिद्धर्मावच्छिन्नत्वान्यतररूपेण अविलक्षणतया भासमानस्य धूमत्वादेश्व न द्विधा साध्यतावच्छेदकत्वं, - मानाभावादतः कालिकेन स्वरूपत एव यत्र धूमत्वस्य साध्यतावच्छेदकस्वं, समवायेन तथात्वं तत्र नातिव्याप्तिः, यत्र कालिक - समवायोभयसम्बन्धेन धूमत्वस्य सभ्यतावच्छेदकत्वं तत्र दोषप्रसक्तिरेव नास्तीति ध्येयम् । सम्बन्धभेदेऽपि निर. -वच्छिन्नावच्छेदकता एकैवेति हृदयम् ।
न च तथापि 'रूपत्ववत्वान् पृथिवीत्वा' दित्यत्र विषयितया स्वरूपतो रूपत्वविशिष्टाभावमादायाव्याप्तिरिति वाच्यम् । एतत्रितयसम्बन्धेन साध्यतावच्छेदकताविशिष्टावच्छेदकत्वानिरूपक प्रतियोगिताकहेतु समानाधिकरणाभावीय प्रतियोगितानि - रूपितसाध्यतावच्छेदकता घटकसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्व, साध्यतावच्छेदक निष्ठत्वोभयाभाववदच्छेदकत्वाभावस्य साध्यतावच्छेदके विवक्षितत्वात् ।
परे तु स्वावच्छिन्नत्व, स्वावच्छिन्न साध्यतावच्छेदकता व्यापकत्वैतदुभयसम्बन्धेन साध्यतावच्छेदकताघटकसम्बन्धविशिष्टान्य साध्यतावच्छेदकनिष्ठसाध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नावच्छेदकत्वनिरूपकत्वं प्रतियोगितायां निवेशनीयम् ।
उक्ताभावप्रतियोगितावच्छेदकतायां स्वविशिष्टान्यत्वसम्पादनाय सम्बन्धघटक