________________
२३४
सिद्धान्त-लक्षण-जागदीशी ।
जागदीशी वस्तुतस्तु-"संयोगस्य = सम्बन्धमात्रस्य, द्वित्वावच्छिन्नप्रतियोगिकत्वविरहेऽपि = द्वित्वावच्छिन्नप्रतियोगिकत्वाप्रसिद्धावपीत्यर्थः । तथा च सम्बन्धमात्रस्य एकप्रतियोगिकापरानुयोगिकसम्बन्धत्वनियमेन वह्निधूमोभयत्वावच्छिन्नप्रतियोगिकसम्बन्धस्याप्रसिद्ध्या तादृशप्रतियोगिकत्वस्य लक्षणाघटकत्वेऽपि-'वह्नि-धूमोभयवान् वह्ने'रित्यादौ नाऽतिव्याप्तिः, प्रकारित्वादेः सम्बन्धत्वे मानाभावादिति" तु प्रागेव प्रपञ्चितमस्माभिः । - के चित्त-“वह्नः" इत्यत्र “धूमात्" इति, "नाऽतिव्याप्तिः” इत्यनन्तरञ्च "श्रव्याप्तिर्वा' इति पाठं कल्पयन्तो-'द्रव्यं जाते रित्यादावतिव्याप्ति, 'वह्नि-धूमोभयवान् धूमादित्यत्र चाऽव्या प्तिमेव पूर्वलक्षणे दोष'-सङ्गमयन्ति ॥२०॥
विशतिः चकारसत्त्वे तस्य प्रामादिकत्वकथनं न युक्तमित्यतः स्वयं समाधानमाहवस्तुतस्त्विति । तथा च 'यादृशप्रतियोगितावच्छेदक पदेन निरुक्तोभयत्वस्य धर्तमशक्यत्वात् 'द्रव्यं जाते':, 'वह्निधूमोभयवान् वढे रित्युभयत्रैव पूर्वोक्तलक्षणेsतिव्याप्तिः प्रतियोगिताधर्मिकोभयाभावघटितलक्षणानुसरणादेव वारणीयेति भावः ।
पूर्वलक्षणे 'द्रव्यं जाते'रित्यत्रातिव्याप्तिः, 'वह्नि धूमोभयवान् धूमा'दित्यत्र चाव्याप्तिरेव दोषतयाऽभिमतेति के चिद्वदन्ति,-व्याचक्षते च ते निरुक्तग्रन्थमन्य. थैवेति-तन्मतमुपन्यस्यति-के चित्त्विति । अतितुच्छत्वात्स्वयमेतन्मतमुपेक्षित. मित्यवधेयम् ।
दीपिका ___ ननु “यद्वा कल्पे-तादृशप्रतियोगितावच्छेदकतासामान्ये,-यत्सम्बन्धावच्छिन्नत्व, यद्धर्मावच्छिन्नत्वैतदुभयाभाव एव लाघवान्निवेश्यतां, किं तादृशप्रतियोगितायामुभयाऽभावनिवेशनेन, ? न चात्र 'वह्निमान्धूमा'दित्यत्र वहिमत्पर्वताऽभावस्य लक्षणघटकस्य प्रतियोगितानिरूपितवाहित्वावच्छिन्नाऽवच्छेदकतायामुभयाऽभावसत्त्वादव्याप्तिः, मन्मते तु,-साध्यतावच्छेदकेतरधर्मावच्छिन्नाऽवच्छेदकताकत्वविरहविशिष्टं यत्साध्यताऽवच्छेदकधर्मावच्छिन्नाऽवच्छेदकताकत्वं,-- तदभाव. सत्त्वाददोष इति वाच्यम् । स्वावच्छेदकताघटकसम्बन्धेन स्वाश्रयानधिकरणहेतु. मन्निष्ठाऽभावप्रतियोगिताऽवच्छेदकतासामान्ये, - उभयाभावस्य विवक्षणाददोषात् ,