________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी व्यभिचारिणि तु,-साध्यवसामान्याभावप्रतियोगितायामेव तादृशोभयाभावविरहान्नातिव्याप्तिरिति तु"-नव्याः ।
ननु व्याप्यवृत्तिसाध्यकस्थलेऽप्युक्तक्रमेणैव व्यापकत्वं निर्वाच्यम्,-अन्यथा 'दण्डिमा'नित्यादौ दण्डित्वादिप्रकारेण व्यापकत्वानुपपत्तेः,
तथा च 'प्रमेयवान् घटत्वा'दित्यादावव्याप्तिः, प्रमेयत्वावच्छिन्नत्वस्याप्रसिद्धेः ।
न च प्रकारित्वादौ तत्प्रसिद्धिः-, -प्रतियोगितानिष्ठाया एवावच्छेद्यतायाः प्रकृते निवेशनीयत्वात् ,
वितिः 'सामान्य'पदव्यावृत्तिमाह-व्यभिचारिणीति । साध्यवसामान्याभावप्रतियोगितायां = साध्यतावच्छेदकसम्बन्धेन साध्यवसामान्याभावप्रतियोगितायां, तादृशोभयाभावविरहात् = यद्धर्मावच्छिन्नावच्छेदकताकत्व - यत्सम्बन्धावच्छिन्ना. वच्छेदकताकत्वोभयाभावविरहात्, नातिव्याप्तिरिति । अन्यथा 'सामान्य पदानुपादाने 'धूमवान्वह्वे रित्यत्र घटवत्सामान्याभावीयप्रतियोगितायां तादृशोभयाभाव. सत्त्वादतिव्याप्तिः स्यादिति भावः।। __ 'समवायेने त्यादिग्रन्थोत्थितौ हेतुमाह-नन्विति । अन्यथेति। व्याप्यत्ति साध्यकस्थले निरुक्तक्रमेण व्यापकत्वाविवक्षण इत्यर्थः । यद्यपि संयोगेन वस्तुमात्र. स्याव्याप्यवृत्तितया दण्डिसाध्यकस्थले प्रतियोगिवैयधिकरण्यघटितस्यैव निरुक्तव्यापकत्वस्य निर्वाच्यत्वमावश्यक, तथापि रूपत्वन्यूनवृत्तिजातिमतः साध्यतास्थले तादृशजातिमत्त्वेन व्यापकत्वानुपपत्तेरेवान्यथेत्यादिग्रन्थाभिप्रेततया नानुपपत्ति. रित्यवधेयम् । __ व्यापकत्वानुपपत्तेरिति। तथा च व्याप्यवृत्तिसाध्यकस्थले हेतुमन्निष्ठाभावनिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकसाध्यतावच्छेदकवत्त्वस्यैव व्यापकत्वस्वरूपतया,-साध्यतावच्छेदकीभूतानां दण्डादीनां तादृशतत्तहण्ड्यभावप्रतियोगितावच्छेदकत्वेन दण्डादिप्रकारेण दण्ड्यादेापकत्वं न सम्भवति, अपि तु परम्परया दण्डत्वादिप्रकारेणैवेति तत्रापि निरुक्तक्रमेण व्यापकत्वाऽभिधाने तादृशतत्तद्दण्ड्यादेरभावप्रतियोगितायां,- दण्डत्वादिमानविशिष्टदण्डाद्यवच्छिन्नत्वविरहेणोभयाभावसत्वाद्दण्डादिप्रकारेण दण्ड्यादेर्व्यापकत्वमव्याहतमेवेति भावः ।
तथा चेति । व्याप्यवृत्तिसाध्यकस्थलेऽपि निरुक्तक्रमेण व्यापकत्वा. भिधाने चेत्यर्थः। अवच्छेद्यतायाः = अवच्छिन्नत्वस्य, प्रकृते = निरुक्तलक्षणे,