________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी 'केचित्तु-"साध्य-साधनभेदेन व्याप्ते/दाद्विशिष्टसाध्यकस्थल एव 'यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमत' इत्यादि वक्तव्यम्,
अविशिष्टसाध्यकस्थले तु-'यादृशप्रतियोगिताश्रयानधिकरणत्वं हेतुमत' इत्येव लाघवाद्वाच्यम् ,
तथा च शुद्धघटस्य साध्यतायां महाकालान्यत्वविशिष्टघटाभावोऽपि प्रतियोगिसमानाधिकरण एव,
प्रतियोगिता च प्रतियोगितावच्छेदकधर्मस्वरूपैव, लाघवात्,-न तु प्रतियोगिस्वरूपा,
-तेषां नानात्वेन गौरवादतो, नैकप्रतियोग्यनधिकरणतामादाय 'संयोग्येतत्त्वा' दित्यादावव्याप्ति"-रित्याहुः,
-तच्चिन्त्यम् -
-'कालो घटवान् महाकालत्वा'दित्यादावव्याप्तिवारणार्थमेवाऽविशिष्टसाध्यकस्थलेऽपि प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वप्रवेशस्य प्रामाणिकतया गौरवस्याकिञ्चित्करत्वादिति ।।
विरतिः न च 'संयोग्येतद्वक्षत्वा'दित्यत्राव्याप्तिः, संयोगाभावप्रतियोगित्वाश्रयी. भूतजलादिवृत्तिसंयोगानधिकरणत्वस्य वृक्षे सत्त्वादिति वाच्यम् । प्रतियोगितायाः प्रतियोगितावच्छेदकस्वरूपतया,-संयोगत्वरूपसंयोगाभावप्रतियोगित्वावच्छिन्नानधिकरणत्वस्य वृक्षेऽसत्त्वात् , एवञ्च वैशिष्ट्याद्यनवच्छिन्नघटसाध्यकमहाकालत्वहेतुकस्थले प्रतियोगित्वाश्रयानधिकरणत्वस्यैव हेत्वधिकरणे निवेशनीयतया न महाकालान्यत्वविशिष्टघटाभावो लक्षणघटकः, तदीयप्रतियोगित्वाश्रयीभूतकेवलघटस्य कालिकसम्बन्धेनानधिकरणताया हेत्वधिकरणे महाकालेऽसत्त्वादिति"-- केषां चिन्मतं दूषयितुमुपन्यस्यति-के चित्त्विति।
प्रतियोगिसमानाधिकरण एव = प्रतियोग्यधिकरणमहाकालटत्तिरेव, एकप्रतियोग्यधिकरणतां = जलादिवृत्तिसंयोगाधिकरणतां ।
प्रामाणिकगौरवस्याकिञ्चित्करत्वमभिप्रेत्य दूषयति-कालो घटवानिति । प्रामाणिकतया अव्याप्तिवारकत्वेन प्रमाणसिद्धतया, अकिञ्चित्करत्वादिति ।
१. 'यत्त्वि'ति पाठान्तरम् । २. 'साध्यभेदेन व्याप्तभिन्नत्वादिति लिखितपुस्तकपाठः ।