________________
१७६
सिद्धान्त- लक्षण - जागदोशी ।
दीधितिः
नन्वष्टद्रव्यातिरिक्त— जगदीशी
*नन्विति ।—
कालिकसम्बन्धेन गोत्वादौ साध्ये घटादिरूपकालोपाधिमात्रवृत्तिघटत्वादितौ नाव्याप्तिः ।
भिन्नकालीन तत्तद्वयक्तित्वावच्छिन्नाभावस्यैव घटादौ प्रतियोगिवैय-धिकरण्यसम्भवादत उक्तम्, अष्टद्रव्यातिरिक्तेति ।
'पृथिव्यादिचतुर्द्रव्यातिरिक्ते 'ति तु ज्यायः, गगनादेः कालत्वविरहादेव तद्व्युदासादिति ध्येयम् ।
विवृतिः
शङ्कते —दीधितौ – नन्विति । तथा च पृथिव्यादिचतुर्द्रव्यातिरिक्तो यो द्रव्यात्मकः कालस्तन्मात्रवृत्तिधर्मस्य - महाकालत्वस्य - व्यापकत्वं, कालिकसम्बन्धे - नाव्याप्यवृत्तेः कस्यापि पदार्थस्य न सम्भवतीति - तादृशसम्बन्धेन तादृशपदार्थ - साध्यकमहाकालत्वहेतौ व्याप्तिलक्षणाव्याप्तिरिति समुदितग्रन्थानामाशयः ।
'अष्टद्रव्यातिरिक्त' त्यस्य व्याटत्तिमाह- कालिकसम्बन्धेनेति । ' गोत्वादा'वित्यादिना - पटत्वादिपरिग्रहः, -
घटत्वादिताविति । 'गोत्ववान् घटत्वा' दित्यत्रेत्यर्थः । 'आदि' पदात्पटत्वादिपरिग्रहः ।
अव्याप्त्यभावमुपपादयति - भिन्नकालीनेति । घटासमानकालीनेत्यर्थः, तथा च घटासमानकालीन तत्तद्व्यक्त्यभावप्रतियोगितावच्छेदकतत्तद्व्यक्तित्वावच्छिन्नासम्ब न्धित्वस्य हेतुमति घटे सत्त्वात् तादृशाभावमादाय तत्र लक्षणसमन्वयादव्याप्तिर्न सम्भवतीति भावः ।
अष्टद्रव्येति । घटस्य पृथिव्यात्मकाष्टद्रव्यस्वरूपतया तदतिरिक्तत्वाभावेन तन्मात्रवृत्तिधर्मस्य घटत्वस्य हेतुत्वं न सम्भवतीत्याशयः ।
ज्याय इति । पृथिव्यादिचतुर्द्रव्यातिरिक्तत्वमेव द्रव्यविशेषणं, न त्वष्टद्रव्यातिरिक्तत्वमित्यभिप्रायः । व्युदासादिति । गगनस्य पृथिव्यादिचतुर्द्रव्यातिरिक्तत्वेऽपि तस्य कालत्वाभावेन तन्मात्रवृत्तिगगनत्वस्य हेतुत्वनिरासम्भवादित्यर्थः ।
दीपिका
नन्वष्टद्रव्यातिरिक्तेति । नन्वष्टद्रव्यातिरिक्तत्वं यदि प्रत्येकं क्षिस्यादिभिन्नवं