________________
विवृति-दीपिकालड़ता।
दीधितिः यद्वा,-साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसम्बन्धित्वं हेतुमतो वक्तव्यम् ।
जागदीशी वनिष्ठान्योन्याभावप्रतियोगितायाः साध्यतावच्छेदक-तादात्म्य-सम्बन्धावच्छिन्नत्वे'मानाभावस्य स्वयमेव 'बौद्धाधिकारटिप्पण्या'मुक्तत्वात्,____एवं-'धनी चैत्रत्वा'दित्यादौ वृत्त्यनियामक-स्वामित्वादि-सम्बन्धेन' धनादेः साध्यतायामपि तादृशसम्बम्धावच्छिन्नप्रतियोगित्वाप्रसिद्धरत आह, यद्वेतिक।
यत्त-"प्रतियोगितावच्छेदकसम्बन्धेन तद्वैयधिकरण्यं प्रवेश्य,पुनः 'प्रतियोगितायाः साध्यतावच्छेदकसम्बन्धावच्छिन्नत्व'विवक्षायां गौरवमतो 'यद्वे'त्यादिकल्प" इति,
वितिः वनिष्ठाभावप्रतियोगितायाः सास्नादिमन्निष्ठघटाद्यन्योन्याभावप्रतियोगितायाः, स्वयमेव = दीधितिकृतैव,-उक्तत्वादिति । अन्योन्याभावत्वस्याखण्डोपाधित्वादित्याशयः।
नन्वखण्डोपाधेरपसिद्धान्तकवलिततया तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमेवान्योन्याभावत्वं वक्तव्यं, तथा च प्रतियोगितायां तादात्म्यसम्बन्धावच्छिन्नत्वमवश्यमेवाङ्गीकर्तव्यमित्यत आह-एवमिति। तथा च स्वामित्वसम्बन्धस्य वृत्त्यनियात्मकतया तत्सम्बन्धावच्छिन्नप्रतियोगित्वाप्रसिद्धः सर्वसम्मतत्वेन स्वामित्वसम्बन्धेन धनसाध्यकचैत्रत्वहेतौ साध्यतावच्छेदकीभूत-स्वामित्व-सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धयाऽव्याप्त्यापत्तेरतो दीधितौ-'यद्वे' त्यादिकमभिहितमिति भावः।
'यद्वे'त्यादिग्रन्थोत्थितौ बीजान्तरं प्रदर्शयतां मतं दूषयितुमुपन्यस्पतियत्त्विति। तद्वैयधिकरण्यं = प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं, पुनरिति। प्रतियोगितावच्छेदकसम्बन्धस्यैव साध्यतावच्छेदकसम्बन्धस्वरूपत्वादित्याशयः । गौरवमिति । साध्यतावच्छेदकसम्बन्धस्य द्विधा प्रवेशेन गौरवमितिभावः ।
१. साध्यताघटक-तादात्म्य-सम्बन्धावच्छिन्नत्व' इति लिखित प्राचीनपुस्तके पाठः।