________________
विवृति-दीपिकालङ्कता।
दीधितिः 'प्रतियोग्यानधिकरणीभूतहेत्वधिकरणवृत्त्यभा'ति पुनरभावान्तार्थनिष्कर्षः।
ननु प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित्,तत्सामान्यस्य,प्रतियोगितावच्छेदकयत्किश्चिदवच्छिन्नस्य वा,
जागदीशी तच्च व्याप्यवृत्तेरवच्छेदकत्वविरहादप्रसिद्धं गुरुतरचे त्यत आह,प्रतियोग्यनधिकरणीभूतेति ॥१२॥ *कस्य चिदिति ।-'अनधिकरणत्व'मिति परेणाम्वयः ।
विवृतिः भावान्तग्रन्थार्थ इति ध्येयं, तच्चेति । तादृशानवच्छेदकत्वार्थकप्रतियोगिवैयधिकरण्यवेत्यर्थः । व्याप्यवृत्तः = प्रतियोगिसामानाधिकरण्यात्मकव्याप्यवृत्तः
अप्रसिद्धमिति । अवच्छेदकाप्रसिद्ध्याऽनवच्छेदकमप्यप्रसिद्धमित्याशयः। ननु प्रतियोगिसामानाधिकरण्यमव्याप्यवृत्त्येवेति केषां चिन्मतमतो न निरुक्तप्र. तियोगिवैयधिकरण्यमप्रसिद्धमत आह-गुरुतरश्चेति । तथा च हेत्वधिकरणविशेषणत्वेन निरुक्तप्रतियोगिवैयधिकरण्यस्य विवक्षणे महगौरवं स्यादतो नोक्तरीत्या तद्विवक्षणीयमित्याशयः। ___ दीधितौ-तत्सामान्यस्येति । प्रतियोगितावच्छेदकावच्छिन्नसामान्यस्येत्यर्थः । यत्किञ्चिदिति। प्रतियोगितावच्छेदकं यत्-यत्किञ्चित् तदवच्छिन्नस्येत्यर्थः । __आये = हेत्वधिकरणे प्रतियोगितावच्छेदकावच्छिन्नयत्किञ्चिद्व्यत्यनधिकरणत्वनिवेशकल्पे, अव्याप्यवृत्तिसाध्यकेति । कपिसंयोगिसाध्यकैतद्वक्षत्वहेतावि. त्यर्थः । अव्याप्तिरिति । कपिसंयोगाभावप्रतियोगितावच्छेदककपिसंयोगत्वावच्छिन्नयत्किञ्चिजलादिवृत्तिकपिसंयोगानधिकरणत्वस्य हेत्वधिकरण एतद्वक्षे सत्वात् साध्याभावस्य प्रतियोगिव्यधिकरणतया लक्षणघटकत्वादव्याप्तिरित्यर्थः । ___ अव्याप्तिमुपपादयति-एकेति [शि• पृ० १२०] । एकस्य = कपिसंयोगाभावप्रतियोगितावच्छेदककपिसंयोगत्वावच्छिमवृक्षरत्तिकपिसंयोगस्य, अधिक रणस्यापि = एतद्वक्षस्यापि, तद्वयत्यन्तरानधिकरणत्वात् = तादृशजलादिवृत्तिकपि. संयोगव्यत्यनधिकरणत्वात् ।