________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
यद्यपि 'प्रतियोग्य समानाधिकरणत्वं' हेतुविशेषणीकृत्य प्रतियोग्यसामानाधिकरण्यविशिष्टो यो हेतुस्तदधिकरणवृत्त्यभावस्य प्रतियोगितानवच्छेदकत्वविवक्षयैव' 'संयोगी एतत्त्वा' दित्यादौ नाव्याप्तिसम्भवः,
विष्टतिः
१२३
मथुरानाथमतं दूषयितुमाशङ्कते — यद्यपीति । प्रतियोग्य सामानाधिकरण्यविशिष्टः = प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नाधिकरणवृत्तित्वाभावविशिष्टः, विवक्षयैवेति । 'स्वप्रतियोगितावच्छेदकसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नाधिकरणनिरूपितवृत्तित्वाभाववान् यो हेतुस्तदधिकरणवृत्ति यत् स्वं तत्प्रतियोगितानवच्छेदकते' त्यादिव्याख्ययैवेत्यर्थः ।
अथैतन्मते स्वप्रतियोग्यधिकरणवृत्तित्वं यदि सम्बन्धसामान्येन विवक्ष्यते, तदा ‘स्पन्दो महाकालत्वा' दित्यत्र स्पन्दत्वाभावप्रतियोग्यधिकरणे स्पन्दे कालिन महाकालत्वस्य वर्त्तमानतया - साध्याभावस्य लक्षणाघटकत्वादतिव्याप्तिः ।
न च हेतुतावच्छेदकसम्बन्धेनैव तथात्वं वाच्यं महाकालत्वस्य स्वरूपेण स्पन्देऽवर्त्तमानत्वादेव नातिव्याप्तिरिति वाच्यं, 'जातित्ववान् द्रव्यत्वात्, धूमा'त्यत्र जातित्वाभावप्रतियोग्यधिकरणीभूतायां जातौ समवायेन, संयोगेन च वृत्तित्वाप्रसिच्या साध्याभावस्य लक्षणाघटकतयाऽभावान्तरमादायातिव्याप्त्यापत्तेरिति चेन । हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयता निरूपितविशेषणताविशेषसम्बन्धेन
स्वप्रतियोग्यधिकरणवृत्तित्वाभावस्य विवक्षितत्वाददोषः ।
न च 'द्रव्यं सत्त्वादित्यत्र द्रव्यत्वाभावप्रतियोगिमति द्रव्ये सत्ताया वृत्तित्वादभावान्तरमादायातिव्याप्तिरिति वाच्यम् । तादृशवृत्तित्वस्याव्याप्यवृत्तितया गुणा-वच्छेदेन द्रव्यत्ववद्वृत्तित्वाभावस्य सत्तायामक्षतत्वात् ।
न चैवं कपिसंयोगी – एतद्वृक्षत्वादित्यत्र कपिसंयोगाभावप्रतियोगि कपि संयो-गवद्वृत्तित्वाभावस्य मूलावच्छेदेन तद्वक्षत्वे सत्त्वादव्याप्तिरिति वाच्यम्, स्वाधि• करणयत्किञ्चिदवच्छिन्न स्वप्रतियोग्यधिकरणवृत्तित्वाभाववव द्वे त्वधिकरणकत्वस्य विव-क्षितत्वादिति ध्येयम् ।
न च तथापि 'गुणो गुणकर्मान्यत्वविशिष्टसत्त्वा' दित्यत्रातिव्याप्तिः, गुणत्वाभाव - प्रतियोग्यधिकरणे गुणे विशिष्टसत्ताया सच्वेन - साध्याभावस्य लक्षणाघटकत्वादिति
१. 'व्याख्ययैवे 'ति कलिकातामुद्रितपाठः, प्रतियोगिता नवच्छेदकत्वं वाच्यं तावतैवेति काशीमुद्रितपाठः ।
२. 'सम्भावना' इति काशी- कलिकाता मुद्रितपाठः ।