________________
११४
सिद्धान्त-लक्षण - जागदीशी ।
दीधितिः
- साध्यशून्यानामपि जगदीशी
प्रवेशादेव नाविव्याप्तिरिति वाच्यम्;
समवायेनाव्यापकत्वग्रहदशायामपि सम्बन्धसामान्येन प्रतियोगिवैयधिकरण्यघटितव्यापकत्वज्ञानात्समवायेन जात्यनुमित्यापत्तेरेव प्रकृतेऽति
व्याप्तिपदार्थत्वात्,
जात्यादेरपि प्रागुक्तव्याप्यवृत्तित्वविरहाच्च । अतिव्याप्तिं योजयति, — साध्यशून्येति ।
विवृतिः
स्वरूपेण वर्त्तमानाभावाप्रतियोगितया, नातिव्याप्तिरिति । प्रतियोगिवैयधिकरण्याघटितलक्षणस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकाभावघटिततया भावत्वाधिकरणे सामान्यादौ समवायेन वर्त्तमानस्य जात्यभावस्य प्रतियोगितावच्छेदकतायाः साध्यतावच्छेदके — जातित्वे - सत्त्वान्नातिव्याप्तिरित्यर्थः ।
'अतिव्याप्ति' पदस्यानुमित्यापत्तिरित्यर्थमभिप्रेत्य समाधत्ते, - समवायेनेति । अव्यापकत्वग्रहदशायां = 'भावत्ववन्निष्ठसमवायावच्छिन्नाभावप्रतियोगिनी जातिरित्याकारक ग्रहकाले, सम्बन्धसामान्येन = एकार्थसमवायादिघटितसम्बन्धसामान्येन, व्यापकत्वज्ञानात् = 'भावत्वसमानाधिकरणसम्बन्धसामान्येन प्रतियोगिव्यधिकरणाभावाप्रतियोगिनी जाति' रित्याकारकज्ञानात् तादृशज्ञानो. दयादिति यावत् । अनुमित्यापत्तिरिति । अनुमितौ निरुक्तव्यापकताज्ञानस्यापि हेतुतया कारणसत्त्वेन 'समवायेन जातिमा' नित्यनुमित्यापत्तिरित्यर्थः । व्याप्यवृत्ति तानवच्छेदकधर्मावच्छिन्न विधेयताकानुमितिं प्रत्येव सम्बन्धसामान्येन प्रतियोगिवैयधिकरण्यघटितव्यापकताज्ञानस्य कारणत्वकल्पनानोक्तज्ञानकाले व्याप्यवृत्तितावच्छेदकजातित्वावच्छिन्नानुमित्यापत्तिः सम्भवतीत्यत भाह - जात्यादेरिति । प्रागुक्तेति । 'वस्तुत' इत्यादिना कथितव्याप्यवृत्तित्वस्य जातौ विरहादव्याप्यवृत्तिसाध्यकस्थलीयस्य निरुक्तसम्बन्धसामान्येन प्रतियोगि• वैयधिकरण्यघटितलक्षणस्य 'जातिमान् भावत्वा' दित्यत्रातिव्याप्तिरस्स्येवेति भावः । पूर्वोक्तव्यभिचारिण्यतिव्याप्तिसङ्गमन परतामाह
ननु
निरुक्तदीधितिग्रन्थस्य अतिव्याप्तिमिति ।
दीधितौ - साध्यशून्यानामिति । साध्यतावच्छेदकसम्बन्धेन साध्याभाव