________________
-
-
~
सिद्धान्त-लक्षण-जागदोशी।
दीधितिः -मनोऽन्यद्रव्यत्वात्',
जागदीशी योगिव्यधिकरण इति भवत्यतिव्याप्तिः ।
'विशेष'पदं व्यभिचारित्वरक्षायै ।
'द्रव्यत्वा'दित्युक्तो सम्बन्धसामान्येन विशेषगुणस्य मनस्यसत्त्वान्ना. तिव्याप्तिसम्भवः, कालोपाधितावदिगुपाधित्वस्यापि मनस्यसत्त्वादव्यावर्तकत्वात्, अन्यथा मनसः कालोपाधित्वमपि स्यादत उक्तं,मनोऽन्येति ।
वितिः . वर्तमानतया साध्याभावस्य लक्षणाघटकत्वादभावान्तरमादायातिव्याप्तिरित्याशयः । विशेषपदमिति । 'गुणवान्मनोऽन्यद्रव्यत्वा'दित्येतावन्मात्रोक्तौ तादृशद्रव्यत्वस्याधिकरणे दिक्कालादौ सर्वत्र गुणस्य सत्त्वेन निरुक्तहेतोः सद्धेतुतया तत्र लक्षणगमनस्येष्टत्वादतिव्याप्तिदानमसङ्गतं स्यादतो 'विशेष'पदमावश्यकमिति भावः । ननु द्रव्यत्वस्याधिकरणेऽपि दिक्कालादौ विशेषगुणस्यासत्वाद् द्रव्यत्वहेतोरपि व्यभि. चारित्वसम्भवे हेतौ 'मनोऽन्य'पदं निरर्थकमित्यत आह-द्रव्यत्वादिति । 'द्रव्यत्वा'दित्युक्तौ हेत्वधिकरणे मनसि वर्तमानो विशेषगुणाभावो भवति प्रतियोगिव्यधि. करणः, तत्प्रतियोगितावच्छेदकीभूतविशेषगुणत्वावच्छिन्नाधिकरणतायाः कालिकादिना केनापि सम्बन्धेन हेतुमति नित्ये मनस्यविद्यमानत्वादिति, सम्बन्धसामान्येन प्रतियोगिव्यधिकरणत्वेन साध्याभावस्य धर्तुं शक्यतया नातिव्याप्तिरतोऽतिव्याप्तिदानाय 'मनोऽन्य'पदं हेतौ निवेशनीयमित्यभिप्रायः । ननु 'द्रव्यत्वा'दित्युक्तावप्यतिव्याप्तिः सम्भवत्येव, मूर्त्तमात्रस्य दिगुपाधितया मनोवृत्तिविशेषगुणाभावप्रतियोगिनो विशेषगुणस्यापि दिक्कृतविशेषणतासम्बन्धेन मनसि सत्त्वात् विशेषगुणामावरूपसाध्याभावस्य मनसि प्रतियोगिसमानाधिकरणत्वादिति 'मनोऽन्य पदं निरर्थकमेवेत्यत आह-कालोपाधितेति। यथा कालोपाधित्वं मनसि. नास्ति तथा दिगुपाधित्वमपि तत्र नास्तीत्यर्थः,। अव्यावर्तकत्वादिति। 'इदानी घटो न तदानीम्' 'इह दिशि घटो न तद्दिशि' इति जन्यानामेव व्यावर्तकत्वं न तु नित्यानामिति भावः। नित्यस्य दिगुपाधित्वे दोषमाह-अन्य. थेति।न स्यादिति । कालोपाधित्वस्य नित्यावृत्तिताया सर्वसम्मतत्वादिति भावः। मनोऽन्यपदमिति । तथा च तादृशमनोऽन्यद्रव्यत्वाधिकरणं न मनोऽपि तु दिकालादिकमेवेति पूर्वोक्तरीत्या भवत्यतिव्याप्तिरित्याशयः ।