SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४१४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उक्तो द्वितीयोद्देशकः । साम्प्रतं तृतीय आरभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके परमतव्युदासद्वारेण सम्यक्त्वमविचलं प्रतिपादयता तत्सहचरितं ज्ञानं तत्फलभूता च विरतिरभिहिता, सत्यपि चास्मिस्त्रये न पूर्वोपात्तकर्मणो निरवद्यतपोऽनुष्ठानमन्तरेण क्षयो भवतीति, अतस्तदधुना प्रतिपाद्यत 5 इति । अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् [सू०१४०] उवेहेणं बहिता य लोकं । से सव्वलोकंसि जे केइ विण्णू । अणुवियि पास णिक्खितदंडा जे केइ सत्ता पलियं चयंति णरा मुतच्चा धम्मविदु त्ति अंजू आरंभजं दुक्खमिणं ति णच्चा । एवमाहु सम्मत्तदंसिणो । ते सव्वे पावादिया दुक्खस्स कुसला परिणमुदाहरंति इति कम्मं परिणाय सव्वसो । उवेहे इत्यादि । योऽयमनन्तरं प्रतिपादितः पाषण्डिलोक: एनं धर्माद् बहिर्व्यवस्थितम् उपेक्षस्व तदनुष्ठानं माऽनुमंस्थाः । चशब्दः अनुक्तसमुच्चयार्थः, तदुपदेशमभिगमन-पर्युपासन-दान-संस्तवादिकं च मा कृथा इति । यः 15 पाषण्डिलोकोपेक्षकः स कं गुणमवाप्नुयात् ? इत्याह से सव्वलोए इत्यादि । यः पाण्डिलोकमनार्यवचनमवगम्य तदुपेक्षां विधत्ते स सर्वस्मिन् लोके ये केचिद् विद्वांसस्तेभ्योऽग्रणी: विद्वत्तम इति । स्यात्-लोके केचन विद्वांसः सन्ति येभ्योऽधिक: स्यात् ? इत्यत आह अणुवीइ इत्यादि । ये केचन लोके निक्षिप्तदण्डाः निश्चयेन क्षिप्तः 20 निक्षिप्तः परित्यक्त: काय-मनो-वाङ्मयः प्राण्युपघातकारी दण्डो यैस्ते विद्वांसो 10 १. प्रतिपादितम् तत्सह० ख । २. उवेह इत्यादि क च, उवेहि इत्यादि ग, उवेहे णमित्यादि घ ङ। ३. एवं क ग । ४. तदुपदेशगमन० क । ५. ०संस्तवनादिकं ख च । ६. च इति ख-गप्रत्योर्न । ७. ०न् मनुष्यलोके ये ख ग च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy