________________
प्रथमे श्रुतस्कन्धे तृतीये शीतोष्णीयाध्ययने चतुर्थ उद्देशकः ३७९ लोगं च इत्यादि । च: समुच्चये लोकं षड्जीवनिकायात्मकं कषायलोकं वा आज्ञया मौनीन्द्रागमोपदेशेन अभिसमेत्य ज्ञात्वा षड्जीवनिकायलोकस्य यथा न कुतश्चिन्निमित्ताद्भयं भवति तथा विधेयम् । कषायलोकप्रत्याख्यानपरिज्ञानाच्च तस्यैव परिहर्तुर्न कुतश्चिद्भयमुपजायत इति । लोकं वा चरा-ऽचरम् आज्ञया आगमाभिप्रायेणाभिसमेत्य न कुतश्चिदैहिका-ऽऽमुष्मिका- 5 पायसन्दर्शनतो भयं भवति । तच्च भयं शस्त्राद्भवति, तस्य च शस्त्रस्य प्रकर्षगतिरस्त्युत नेति ? अस्तीति दर्शयति
अत्थि इत्यादि । तत्र द्रव्यशस्त्रं कृपाणादि तत् परेणापि परमस्ति तीक्ष्णादपि तीक्ष्णतरमस्ति, लोहकर्तृसंस्कारविशेषात् । यदि वा शस्त्रमित्युपघातकारि, तत एकस्मात् पीडाकारिणोऽन्यत् पीडाकार्युत्पद्यते, ततोऽप्यपरम्, 10 ततोऽप्यपरमिति । तद्यथा-कृपाणाभिघाताद् वातोत्कोपः, ततः शिरोऽतिः, तस्या ज्वरः, ततोऽपि मुखशोष-मूर्छादय इति । भावशस्त्रपारम्पर्यं त्वेकसूत्रान्तरितं स्वत एव प्रत्याख्यानपरिज्ञाद्वारेण वक्ष्यति । यथा च शस्त्रस्य प्रकर्षगतिरस्ति पारम्पर्य वा विद्यते अशस्त्रस्य तथा नास्तीति दर्शयितुमाह
नत्थि इत्यादि । नास्ति न विद्यते, किं तद् ? अशस्त्रं संयमः तत् परेण 15 परम् इति प्रकर्षगत्यापन्नमिति, तथाहि-पृथिव्यादीनां सर्वत्र तुल्यता कार्या, न मन्द-तीव्रभेदोऽस्ति, पृथिव्यादिषु समभावत्वात् सामायिकस्य, अथवा शैलेश्यवस्थासंयमादपि पर: संयमो नास्ति, तदूर्द्ध गुणस्थानाभावादिति भावः । यो हि क्रोधमुपादानतो बन्धनतः स्थितितो विपाकतोऽनन्तानुबन्धिलक्षणतः क्षयमाश्रित्य प्रत्याख्यानपरिज्ञया जानाति सोऽपरमानादिदर्श्यपीत्येतदेव प्रतिसूत्रं 20 लगयितव्यमित्याह
१. भवतीति ग । २. तच्च शस्त्राद्भयं भवति ख । ३. ०स्त्युत न ? इति दर्शयति ख-चप्रती विना । ४. ततश्चापरम् ख, ग घ ङप्रतिषु पाठभङ्गः । ५. वातोत्कोच: ख च । ६. तस्माद् ज्वर: ख च । ७. ०द्वारेणैव वक्ष्यति ग । ८. ०रस्तीति ङ। ९. पारम्पर्येण वा ग । १०. न तीव्र-मन्दभेदोऽस्तीति ग । ११. परं क ।