________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्रे
तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बाला: अविरतास्तेषां मरणं बालमरणम्. तथा पण्डिताः सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिता: देशविरतास्तेषां मरणं बालपण्डितमरणम्, तथा छद्मस्थमरणम् अकेवलिमरणम्, केवलिमरणं तु प्रतीतम, वेहासमरणं ति विहायसि व्योम्नि भवं वैहायसम्, विहायोभवत्वं च तस्य 5 वृक्षशाखाद्युद्वद्धत्वे सति भावात्, तथा गृधैः पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वाद्दरादि च यत्र तद् गृध्रपृष्ठम्, इदं च करि-करभादिशरीरमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवतीति, तथा भक्तस्य भोजनस्य यावज्जीव
प्रत्याख्यानं यस्मिंस्तत्तथा, इदं च त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं 10 सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्ग्यते प्रतिनियतदेश एव चेष्ट्यतेऽस्याम
नशनक्रियायामितीङ्गिनी. तया मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रत्याख्यातुनिष्प्रतिकर्मशरीरस्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनम् अवस्थान यस्मिन् तत् पादपोपगमनम्, तदेव मरणमिति विग्रहः, इदं च यथा पादपः क्वचित्
कथञ्चिद् निपतितः सममसममिति चाऽविभावयन्निश्चलमेवाऽऽस्ते तथा यो वर्त्तते तस्य 15 भवतीति ।
__तथा सूक्ष्मसंपरायः उपशमकः क्षपको वा सूक्ष्मलोभकषार्याट्टिकावेदको भगवान् पूज्यत्वात् सूक्ष्मसंपरायभावे वर्तमानः तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसंपरायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निबध्नाति विंशत्युत्तर
बन्धप्रकृतिशतेऽन्या न बध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्ध प्रतीत्य तासा 20 व्यवच्छिन्नत्वात्, तथोक्तानां सप्तदशानां मध्यादेका शातप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति, शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह
नाणं ५ तराय ५ दसगं देसण चत्तारि ४ उच्च १५ जसकित्ती १६ । एया सोलस पयडी सुहमकसायम्मि वोच्छिन्ना ।। [कर्मस्तव० २।२३]
१. सात खंसः ।।