________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसत्रे पन्नरसेसु त्ति पञ्चदशसु दिनेषु पञ्चदशं भागमावृत्य तिष्ठति, तं चेव त्ति तमेव पञ्चदशभागं शुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् उपदर्शयन् पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चाय
भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशो भागोऽवस्थित एवास्ते, ये चान्ये भागास्तान 5 राहुः प्रतितिथि एकैकं भागं कृष्णपक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तं चज्योतिष्करण्डके- सोलस भागे काऊण उडुवई हायएत्थ पन्नरसं ।
तत्तियमेत्ते भागे पुणो विपरिवहुई जोण्हं ।। [ज्योतिष्क० १११] ति. ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात् कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च 10 लघुत्वेन सर्वावरणं स्यात् ? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं
तत् प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते. लघीयसोऽपि वा राहविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति ।
तथा षड् नक्षत्राणि पञ्चदश मुहर्त्तान् यावच्चन्द्रेण सह संयोगो येषां तानि पञ्चदशमुहूर्त्तसंयोगानि, तद्यथा15 सयभिसया भरणीओ अहा अस्सेस साइ जेट्टा य ।
एए छन्नक्खत्ता पन्नरसमुहत्तसंजुत्ता ।। [जम्बू० ७।१६०], संयुक्तं संयोग इति ।
१. पंचदशं पंचदशभागमावृत्य ख० विना ।। २. “सालसभाग काऊण उड़बई हायतेऽत्थ पन्नरस । तत्तियमत्त भाग पुणा वि परिवड्डई जुण्हे ॥१०३।। कियत्संख्याकास्तास्तिथयः ?. इति तत्संख्यानिरूपणार्थमुपपत्तिमाह- इह यावता कालनैकश्चन्द्रमण्डलस्य षोडशो भागा द्वाष्टिभागसत्कचतभांगात्मकः परिहीयते वर्द्धत वा तावत्कालक्रमण शुक्लपक्षे परिवर्द्धयति तावत्य: तावत्प्रमाणाः शुक्लपक्षे कृष्णपक्षे च तिथयो भवन्ति । तत्र पञ्चदश भागान कृष्णपक्ष हापर्यात पञ्चदशैव च भागान् शुक्लपक्ष परिवर्द्धयर्यात, ततः पञ्चदश कृष्णपक्षे तिथय: पञ्चदश शक्लपक्षे ।।१०३।।" - इति श्रीमलयगिरिसूरिविरचितायां ज्योतिष्करण्डकवृत्तौ । पुनरपि समवायाङ्गवृत्तौ पृ० १५२ मध्य उद्भूतयं गाथा। अत्रदमवधयम्- श्रीमहावीरजेन विद्यालयेन विक्रमसं० २०४५ [ईसवीये १९८९] वर्षे प्रकाशित ज्योतिष्करण्डक 'परिवडते जोण्हे' इति पाठो मुद्रितः, किन्तु तत्रैव परिवड्डई जुन्हा इति परिवड्डए जोण्हं इति च पाठद्वयमपि पाठान्तररूपेण पाटिप्पने उपन्यस्तम् ।। ३. जोण्हत्ति जेर हेर ।। ४. "दशैर्दिनः खसं० ।।