________________
म० १५
पञ्चदशस्थानकम् ।
वज्राकारासु वा वैक्रियवालुकासु तप्तासु चन(ण? )कानिव तान् पचति स वालुक इति १२. वेयरणी ति य त्ति वैतरणीति च परमाधार्मिकः, स च पूय-रुधिर-त्रपुताम्रादिभिरतितापात् कलकलायमानै तां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदी विकुळ तत्तारणेन कदर्थयति नारकानिति १३. खरस्सरे त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं कुर्वन्तं कुर्वन् वा कर्षति स 5 खरस्वर इति ५४. महाघोसे त्ति यो भीतान् पलायमानान् नारकान् पशूनिव वाटकषु महाघोष कर्वनिरुद्धि स महाघोष इति १५. एमए पन्नरसाहिय त्ति एवमित्यम्बादिक्रमणैते परमाधार्मिका: पञ्चदशाख्याता: कथिता जिनैरिति ।।
धुवराहू णमित्यादि, द्विविधो राहुः भवति ध्रुवराहुः पर्वराहुश्च, तत्र य: पर्वणि पौर्णमास्याममावास्यायां वा चन्द्रा-ऽऽदित्ययोरुपरागं करोति स पर्वराहः, यस्तु चन्द्रस्य 10 सदैव सन्निहित: सञ्चरति स ध्रुवराहः. आह चकिण्हं राहविमाणं निच्चं चंदेण होइ अविरहिअं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ।। [बृहत्सं० ११६] त्ति ।
ततोऽसौ ध्रुवराहुः णमित्यलङ्कारे बहुलपक्षस्य प्रतीतस्य पाडिवयं ति प्रतिपदं प्रथमतिथिमादौ कृत्वेति वाक्यशेष: पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विवचनादि 15 यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह– तद्यथेत्यादि, पढमाए त्ति प्रथमायां तिथ्यां प्रथमं भागं पञ्चदशाशलक्षण ‘चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् १. वाटषु ज२ ॥ २. एए जस२ ।। ३. इह द्विविधा राहस्तद्यथा- पर्वराहर्नित्यराहश्च । तत्र पर्वराहः स उच्यते यः कदाचिदकस्मात समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरित करोति । अन्तरित च कृते लोक ग्रहमति प्रसिद्धिः । स च पर्वराहर्जघन्यत उत्कर्षता वा यावता कालेन चन्द्रसूर्याणामुपरागं करोति तदेतत् क्षेत्रसमास[३९५ तमगाथा | टीकायामभिहितमिति नेह भूयोऽभिधीयते। यस्तु नित्यराहस्तस्य विमानं कृष्णम्. तच्च तथाजगत्स्वाभाव्याच्चन्द्रण सह नित्य सर्वकालमविहितं तथा चतुरङ्गुलेन चतुर्भिरङ्गुलेरप्राप्त सच्चन्द्रस्य चन्द्रविमानस्याधस्ताच्चरति. तच्च कृष्णपक्षे प्रतिपद आरभ्य प्रतिदिवसमकैका कलामात्मीयन पञ्चदशन भागेनोपरितनभागादारभ्यावृणाति । शुक्लपक्ष तु प्रतिपद आरभ्य तनव क्रमण प्रतिदिवसमकैका कला प्रकटीकरोति. तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते. यावता पुन: स्वरूपणावस्थितमव चन्द्रमण्डलमिति ।।११६॥" - इति बहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ।।