________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ तथा सञ्ज्ञानं सञ्ज्ञा, सा च यद्यपि हेतुवाद-दृष्टिवाद-दीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रिय-सम्यग्दृष्टि-समनस्कसम्बन्धित्वात् त्रिधा भवति तथापोह दीर्घकालिकोपदेशसञ्ज्ञा ग्राह्येति, सा यस्यास्ति स सञी समनस्कः, तस्य ज्ञानं
सज्ञिज्ञानम्, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा से तस्याऽसमुत्पन्नपूर्व 5 समुत्पद्येत, कस्मै प्रयोजनाय ? इत्याह- पुव्वभवे सुमरित्तए त्ति पूर्वभवान् स्मर्तुम्, स्मृतपूर्वभवस्य च संवेगात् समाधिरुत्पद्यते इति समाधिस्थानमेतत् तृतीयमिति ।
तथा देवदर्शनं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, देवा हि तस्य गुणित्वाद् दर्शनं ददति, किम्फलम् ? इत्याह- दिव्यां देवर्द्धिं प्रधानपरिवारादिरूपां दिव्यां
देवद्युतिं विशिष्टां शरीरा-ऽऽभरणादिदीप्ति दिव्यं देवानुभावम् उत्तम 10 वैक्रियकरणादिप्रभावं द्रष्टम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषु श्रद्धानदाढ्यं
धर्मे बहुमानश्च भवति, ततश्चित्तसमाधिरिति भवति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थम्। ___ तथा अवधिज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत, किमर्थम् ? इत्याह
अवधिना मर्यादया नियतद्रव्य-क्षेत्र-काल-भावरूपेण लोकं ज्ञातुम्, लोकज्ञानायेत्यर्थः. 15 भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चमं तदिति। एवमवधिदर्शनसूत्रमपीति
षष्ठम् । ___ तथा मन:पर्यवज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत. किमर्थम् ? अत
आह–मणोगते भावे जाणित्तए अर्द्धतृतीयद्वीपसमुद्रेषु सज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतज्ज्ञानायेत्यर्थ इति सप्तमम् । 20 तथा केवलज्ञानं वा से तस्याऽसमुत्पन्नपूर्वं समुत्पद्येत. केवलं परिपूर्णम्,
लोक्यते दृश्यते केवलालोकेनेति लोको लोकालोकरूपं वस्तु, तं ज्ञातुम्, केवलज्ञानस्य च समाधिभेदत्वाच्चित्तसमाधिस्थानता, इह चामनस्कतया केवलिनश्चित्तं चैतन्यमवसेयमित्यष्टमम् । एवं केवलदर्शनसूत्रम्, नवरं द्रष्टुमिति विशेष इति नवमम्।
तथा केवलिमरणं वा म्रियेत कुर्यात् इत्यर्थः, किमर्थम् ? अत आह१. सज्ञानं ख० ।। २. तस्यानुत्पन्न ह२ विना ॥ ३. च नास्ति खं० ज१ ॥