________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
बाह्याभ्यन्तरतपः-समुद्घाता - ऽवग्रहार्थानि सूत्राणि षट्, नक्षत्रार्थे द्वे, स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थं त्रयमेवेति । तत्र लेश्यानां स्वरूपमिदम्
5
२४
कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मन: । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते । [
] इति ।
तथा बाह्यं तपः बाह्यशरीरस्य परिशोषणेन कर्मक्षपणहेतुत्वादिति, आभ्यन्तरं चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वादिति । तथा छद्मस्थः अकेवली, तत्र भवा छाद्मस्थिकाः, सम् एकीभावेन उत् प्राबल्येन च घाता निर्जरणानि समुद्घाताः. वेदनादिपरिणतो हि जीवो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति, आत्मप्रदेशैः संश्लिष्टान् शातयतीत्यर्थः, 10 ते चेह वेदनादिभेदेन षडुक्ताः । तत्र वेदनासमुद्घातोऽसद्वेद्यकर्माश्रयः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तर्मुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विक- तैजसा -ऽऽहारकसमुद्घाताः शरीरनामकर्माश्रयाः । तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातम्, मारणान्तिकसमुद्घातसमुद्धत 15 आयुःकर्मपुद्गलघातम्, वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद् बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति, एवं तैजसाऽऽहारकसमुद्घातावपि व्याख्येयाविति । तथा अर्थस्य सामान्यानिर्देश्यस्वरूपस्य शब्दादेः अवेति प्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणं परिच्छेदनमर्थावग्रहः, स चैकसामयिको 20 नैश्चयिकः, व्यावहारिकस्त्वसङ्ख्येयसामयिकः, स च षोढा श्रोत्रादिभिरिन्द्रियैर्नोइन्द्रियेण च मनसा जन्यमानत्वादिति । स्थितिसूत्रे स्वयम्भ्वादीनि विंशतिर्विमानानीति || ६ ||
-
[सू० ७] [१] सत्त भयट्ठाणा पण्णत्ता, तंजहा - इहलोगभए पर लोगभए आदाणभए अकम्हाभए आजीवभए मरणभए असिलोगभए १ ।
१. मानानि खं० ॥