________________
पञ्चस्थानकम् ।
म परितापनं ताडनादिदु :खविशेषलक्षणम्, तेन निर्वृत्ता पारितापनिकी । प्राणातिपातक्रिया प्रतीतेति । तथा काम्यन्ते अभिलष्यन्ते इति कामा:, ते च ते गुणाश्च पुद्गलधर्माः शब्दादय इति कामगुणाः, कामस्य वा मदनस्योद्दीपका गुणाः कामगुणा: शब्दादय इति । तथा आश्रवद्वाराणि कर्मोपादानोपाया मिथ्यात्वादीनि। संवरस्य कमानुपादानस्य द्वाराणि उपाया: संवरद्वाराणि मिथ्यात्वाद्याश्रवद्वारविपरीतानि 5 सम्यक्त्वादीनि । तथा निर्जरा देशतः कर्मक्षपणा, तस्याः स्थानानि आश्रयाः कारणानीति यावत् निर्जरास्थानानि प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्रेऽभिहितानि, स्थूलशब्दविशेषितानि त्वणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितम् ।।
तथा समितयः सङ्गताः प्रवृत्तयः, तत्र्यासमिति: गमने सम्यक् सत्त्वपरिहारत: 10 प्रवृत्तिः, भाषासमिति: निरवद्यवचनप्रवृत्तिः, एषणासमितिः द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्तिः, आदाने ग्रहणे भाण्डमात्राया उपकरणपरिच्छदस्य निक्षेपणे अवस्थापन समिति: सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्य पुरीषस्य प्रश्रवणस्य मूत्रस्य खेलस्य निष्ठीवनस्य सिंघानस्य नासिकाश्लेष्मणो जल्लस्य च मलस्य परिष्ठापनायां परित्यागे समितिः स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरिति पञ्चमी। 15 अस्तिकाया: प्रदेशराशयः, धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः। स्थितिसूत्रेषु स्थितरुत्कृष्टादिविभाग एवमनुगन्तव्यः, यदुत
सागरमग १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य बावीसा ६ । तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ।।१।।
१. यल्लस्य ज१.२ खं० ।। २. सप्तस पृथिवीष्वियं यथासङ्ख्यमत्कष्टा स्थितिः । तद्यथा-रत्नप्रभायां पृथिव्यामकं सागरापममत्कष्टा स्थितिः । शर्कराप्रभाया त्रीणि सागरोपमाणि । वालुकाप्रभायां सप्त । पङ्कप्रभाया दश। धूमप्रभाया सप्तदश । तमः-प्रभाया द्वाविंशतिः । तमस्तम:प्रभाया त्रयस्त्रिंशदिति ।।२३३।। सम्प्रति सप्तस्वपि पृथिवीषु जघन्या स्थितिमाह-या प्रथमायां रत्नप्रभाभिधायां पृथिव्यां ज्येष्ठा उत्कृष्टा स्थितिः सागरोपमलक्षणा सा द्वितीयस्यां पृथिव्या शर्कराप्रभायां कनिष्ठा जघन्या भणिता । एष तरतमयोगो जघन्यात्कष्टस्थितियोग: सर्वास्वपि पृथिवीषु भावनीयः । ....२३४॥” इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम् ।।