SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् । पृ०१५७ पं०२२] “अधुनाऽस्यैव क्षुल्लहिमवतो धनुःपृष्ठं बाहां चाह- धणुपट्ट कलचउक्कं, पणुवीससहस्स दुसय तीसऽहिया । बाहा सोलद्धकला, तेवन्न सया य पनहिया ॥५३॥ व्या० पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके योजनानां कलाश्चतस्रः २५२३० क० ४ इत्येतावत्परिमाणं क्षुल्लहिमवतो धनुःपृष्ठम् । तथाहि- क्षुल्लहिमवतः इषुपरिमाणं त्रिंशत्सहस्राणि कलानाम् ३००००, अस्य वर्गो विधीयते, जातो नवक: अष्टौ शून्यानि ९०००००००० । एष राशिभूयः षड्भिर्गुण्यते, 5 जातः पञ्चकः चतुष्क: अष्टौ शून्यानि ५४०००००००० । एतत् क्षुल्लहिमवतो जीवावर्गे प्रागुक्तस्वरूपे द्विकः द्विकः चतुष्कः चतुष्क: अष्टौ शून्यानि २२४४०००००००० इत्येवंपरिमाणे प्रक्षिप्यते । ततो जातो राशिरयम्- द्विकः द्विकः नवकः अष्टकः अष्टौ शून्यानि २२९८०००००००० । अस्य वर्गमूलानयने लब्धः चतुष्कः सप्तक: नवकः त्रिकः सप्तकः चतुष्कः ४७९३७४ । शेषं तूद्धरितं पञ्चकः षट्कः अष्टक: एककः द्विक: चतुष्कः ५६८१२४ । छेदराशिः नवकः पञ्चक: अष्टक: 10 सप्तकः चतुष्कः अष्टकः ९५८७४८ । वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके चतस्रः कला: २५२३० क० ४ । तथा त्रिपञ्चाशच्छतानि पञ्चाशदधिकानि योजनानां षोडशार्धकलाः सार्धपञ्चदशकला: ५३५० क० १५३ इत्येतावत्प्रमाणा पूर्वस्यामपरस्यां च दिशि प्रत्येकं बाहा । तथाहि- महतो धनुःपृष्ठात क्षुल्लहिमवतः संबन्धिनः पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके योजनानां कलाश्चतस्रः २५२३० 15 क० ४ इत्येवंपरिमाणात् लघु धनुःपृष्ठमुत्तरभरतार्धसंबन्धि चतुर्दश सहस्राणि पञ्च शतानि अष्टाविंशत्यधिकानि योजनानां कलाश्चैकादश १४५२८ क० ११ इत्येवंप्रमाणं शोध्यते, शोधिते च सति जातं शेषमिदं दश सहस्राणि सप्त शतानि एककोत्तराणि योजनानां कलाश्च द्वादश १०७०१ क० १२ । एतेषामधे लब्धानि त्रिपञ्चाशच्छतानि पञ्चाशदधिकानि योजनानां कलाः पञ्चदश एक कलार्धम् ५३५० क० १५ अर्धम् १ ॥५३॥" -इति बृहत्क्षेत्र० मलय० ॥ 20 पृ०१६२ पं०७] “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । एत्तो विसेसहीणं जावुक्कोसं ति सव्वेसिं ॥८३॥ व्या०- तदेवं कृता स्थितिस्थानप्ररूपणा । सम्प्रति निषेकप्ररूपणावसरः। तत्र च द्वे अनुयोगद्वारे -अनन्तरोपनिधा, परम्परोपनिधा च । तत्रान्तरोपनिधाप्ररूपणार्थमाह- मोत्तूण त्ति सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमात्मीयमबाधाकालं मुक्त्वा परित्यज्य ऊर्ध्वं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं 25 द्रव्यं कर्मदलिकं निषिञ्चति । एत्तो विसेसहीणं ति इतः प्रथमस्थितेरूचं द्वितीयादिषु समयसमयप्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिञ्चति । तथाहि- प्रथमस्थितेः सकाशात् द्वितीयस्थिती विशेषहीनम्, ततोऽपितृतीयस्थितौ विशेषहीनम्, ततोऽपि चतुर्थस्थितौ विशेषहीनम्, एवं विशेषहीनं विशेषहीनं तावद्वाच्यं यावत्तत्तत्समय बध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ।।८३।।” इति मलयगिरिसूरिविरचितायां कर्मप्रकृतिवृत्तौ ।। 30
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy